पृष्ठम्:Prabandhaprakasha.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
सर्वेष्वपि देशेषु सर्वेष्वपि च कालेषु सर्वेऽपि कर्ममार्गा:
सर्वमेव कर्मकाण्डं च लोकप्रगतिमनुरुध्यैव वस्तुतः प्रजाहित-
दृष्ट्यैव च प्रचारितं सत् साफल्यं लभते । लोक एव
याथायेंन
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्य: पद्भ्याछ शूद्रो अजायत ||
इत्येवं गीयमानस्य भगवतो विरादूपुरुषस्य प्रत्यक्षमूर्त्ति-
रिव सर्वेषामेव मार्गाणां धर्माणां कर्मणां वा सत्यत्वासत्यत्वयो-
रुपयोगित्वानुपयोगित्वयोर्वा परीक्षणाय सत्यं तत्त्वनिकषग्रावेव
वर्तते ।
अमुमेवार्थ प्रख्यापयन्ती 'विशि राजा प्रतिष्ठित: '
इत्येषा श्रुतिर्गीयते ।
अमेवार्थ: 'स्त्रीभ्य: सर्ववर्णेभ्यश्च धर्मशेषान् प्रतीयात्'
(० धर्म० २|११|२६|१५ ) इत्यापस्तम्बधर्मसूत्रवचनेन
पुष्टिं समश्नुते ।
एतदेव रहस्य यत्कालक्रमेण केऽपि धर्मा विलुप्ता जायन्ते,
परम्परागता: प्राचीनशास्त्रेषु समुद्गीयमानाः कर्मपथा: खिली-
भवन्ति । अन्ये च नूतनास्तेषां स्थानमधितिष्ठन्ति । एतदेव
कारणं प्राचीननवीन संस्कृत्या स्तिरोभावाविर्भावयोः ।
तामेतां लोकप्रगतिमनुरुध्यैव लोकावस्थितिथ्वावेदय लोक-
व्यवहारविदो विद्वांसः प्रजाहितदृष्टयं व कर्मसु प्रवर्तमाना:
सर्वेषां समादरभाजो जायन्ते । तत्तत्कार्येषु पुरोयायिनः
पुरोहिता ( पुरोहिताः स्थापिता: ) मार्गप्रदर्शका एव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७०&oldid=355468" इत्यस्माद् प्रतिप्राप्तम्