पृष्ठम्:Prabandhaprakasha.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
लोकप्रगतेले किाव स्थितेश्चीपेक्षा
ततश्च न हि राजशक्तेर्हानिः राजनैतिकदुरवस्था वा
संस्कृतभाषाया अवनतेर्मूलकारणम्, किन्तु यन्मूलकारणां
तत्कृतैव राजशक्तेर्हानिरपि । तच्च लोकप्रगते:, लोकव्यव-
हाराद्, लोकावस्थितेश्च संस्कृतज्ञानां विराग उपरतिः,
तेषामुपंक्षा च ।
लोकप्रगतिर्हि नदीव सततमग्रगामिनी न जातु एकावस्था-
यामेव संतिष्ठते । ऋतूनामिव तस्या अपि प्रानुरूप्येय वर्तन
जीवनस्य सफल जीवनयात्राया वा प्रथमं लक्षणम् | लोकप्रगति-
मनुरुध्यैव प्रवर्तमानास्तत्तद्देशनिवासिन्यो जातयो जगति
स्वयशः समन्तात् प्रसारयन्ति | अन्यास्तु कालकवलतामा-
पद्यन्ते । वस्तुतो लोकप्रगतिमूलिकैव तत्तयुगादिकल्पना |
युगरूपानुसारतश्च धर्माणां भेद इति वै शास्त्रविदां मतम् ।
तथाहि-
www
अन्ये कृतंयुगे धर्मास्त्रेतायां द्वापरे युगे |
अन्ये कलियुगे नृणां युगरूपानुसारतः ॥
युगेष्वावर्तमानेषु धर्मोऽप्यावर्तते पुनः ।
धर्मेध्वावर्तमानेषु लोकोऽप्यावर्तते पुनः ||
श्रुतिश्च शौचमाचार प्रतिकालं विभिद्यते ।
नानाधर्मा: प्रवर्तन्ते मानवानां युगे युगे ॥
इत्येव तासु तासु स्मृतिषु स्मर्यते ।
११

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६९&oldid=355467" इत्यस्माद् प्रतिप्राप्तम्