पृष्ठम्:Prabandhaprakasha.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

१६.० प्रबन्धप्रकाशः परमेतादृशैः पुरावृतोद्गारैरलम् । वर्तमानामसाधारणीमवनतिमस्माकं हृद्गतां कर्तुम् । पर्याप्तमेतावद्वर्गानं तस्या देववाण्या अवनतेः कारणानि । कानि पुनर्देववाण्या अवनतेः कारणानि ? प्रायेणैष विचार एतादृशस्थलेषु बहुभिरुपस्थाप्यते यद्राजशक्तेः स्वसंस्कृतेः पोषिकाया प्रभाव एवास्माक देववाण्या वा उत्तरोत्तरमभिवर्धमानाया अवनतेः कारणमिति । 'राजा कालस्य कारणम्' इत्यादिवचनान्यप्यत्र विषये प्रमाणोक्रियन्ते । परं वस्तुतो विचारगायां तु कार्यकारणभावस्य वैपरीत्यमेवात्र न: प्रतिभाति । कस्यापि देशस्य राजशक्तो राजनैतिकावस्था वा न स्वयमकार त एव समुत्पद्यते । वस्तुतः सापि तत्तद्द ेशवासिनां शिष्टानां शिक्षितानां वा जननायकानां जनतायाः प्रतिनिधिरूपाण पुरोयायिनां पुरोहितानां वा प्रजाः प्रति स्वकर्त्तव्यस्य पालनापालन मूलिकैव । एवञ्च तत्तत्काले संदृश्यमाना भारते या राजनैतिकी दुरवस्था नैषास्माकं दुरवस्थायाः कारणम्, प्रत्युत्त त्रयमेव स्वकर्तव्यपालनाद्विमुखा जनतायाः पुरोयायिपदाद् भ्रष्टास्तस्याः कारणतामुपगताः । एतादृशमेव तत्तद्विषयककार्यकारणभावे मतिवैपरीत्यमन्येष्वपि विषयेषु प्रायेणात्माक - मुपदृश्यते । तदाधारेणैव च जनताया वास्तविक लाभालाभ. विचारमुपेक्ष्य तास्ता दृष्टी: प्रजासु प्रचारयन्तो वस्तुतः स्वात्मवञ्चनामेव बहवो जनाः कुर्वन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६८&oldid=355466" इत्यस्माद् प्रतिप्राप्तम्