पृष्ठम्:Prabandhaprakasha.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
१५७
वैदिकेषु ऋषिषु त्रसदस्युप्रभृतीनां राजन्यानां वसुकर्णादि
वैश्यानां विश्ववाराप्रभुतीनां स्त्रीणामुपलब्धि: उपनिषत्सु राज्ञा-
मृषिभ्यो ब्रह्मज्ञानस्योपदेष्टृत्वेन प्रसिद्धिः महाभारते भीष्म-
पितामहादेर्नीतिशास्त्रप्रवक्तृत्वेन वर्णनमित्यादि सर्वमपि तस्याः
प्रचारस्य व्यापकत्वमेवानुमापयति ।
सस्मिन्हि प्राचीनं प्राचीनतमे च समये जीवनयात्रायाः
प्रत्येक विभाग देववाण्या एवाप्रतिहतं साम्राज्य सुस्थित
मासोत् ।
सेनापत्य च राज्य च दण्डनेतृत्वमेव च
सर्वलोकाधिपत्य च वेदशास्त्रविदर्हति ||
,
( मनु० १२|१०० )
परिकल्पयेत् ।
दशावरा वा परिषत् यं धर्म
व्यवरा बापि वृत्तस्था तं धर्म न विचालयेत् ॥
त्रैविद्यो | हेतुकम्तर्की नैरुक्तो धर्मपाठक: ।
त्रयश्चा श्रमिणः पूर्वे परिषत् स्याद्दशावरा ||
ऋग्वेद विद्यजुर्विच्च
न्यवरा परिषज्ज्ञेया
सामवेदविदेव च ।
धर्मसंशय निर्णये ||
इत्यादि प्रमागणैरयमेवार्थ: स्पष्टोक्रियते ।
-
( मनु० १२/११०-११२ )
6
छान्दोग्योपनिषदादिगतैः "ऋग्वेदं भगवोऽध्ये मि
यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चम
वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देव-
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६५&oldid=355463" इत्यस्माद् प्रतिप्राप्तम्