पृष्ठम्:Prabandhaprakasha.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८
प्रबन्धप्रकाशः
विद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजन विद्यामेतद्
भगवोऽध्येमि" ( छान्दोग्योपनिषद् ७११) इत्यादिप्रमाणैः,
शुक्रनीत्यादी :-
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती ।
विद्याश्चतस्त्र एवैता:
वर्णा: सर्वाश्रमाश्चैव विद्यास्वासु प्रतिष्ठिता: ।
इत्येव' सर्वेषां वर्णानामाश्रमाणां च कृते तत्तदुपयोगितामाक-
लय्य चतसृणां विद्यानां प्रतिपादनेन,
यद्यत्स्याद्राचिकं सम्यक् कर्म विद्याभिसंज्ञकम् ।
शक्ता मूकोऽपि यतकर्तु कलासंज्ञं तु तत्स्मृतम् ||
इत्येवं लक्षितानां द्वात्रिंशद्रियानां चतुःषष्टिकलानां च भेदानुप-
क्रम्य विभिन्न प्रस्थानैस्तत्तद्वेदसंबद्धैर्धनुर्वेदायुर्वेदार्थवेदादिभिः
सह संबन्धविधया विभज्य तत्तत्कलानां प्रदर्शनेन च न केवलं
प्राचीनकाले देववाण्या वाङ्मयस्य तत्तद्रियानां कलानां च
'भेदेनातिविस्तृतत्व' किन्तु सर्वस्यापि लोकव्यवहारस्य जीवन-
यात्रायाश्च कार्यनिर्वहणक्षमत्वमखिलपुरुषार्थसाधनोपयोगित्वं
च सुस्पष्टं प्रतीयते ।
तदेवं प्राचीनकाले न केवलं भारतवर्ष एव किन्तु भारताद्
बहिरपि विभिन्न देशेषु प्रचारातिशयमुपभुञ्जाना सर्वासामपि
जीवनयात्रानिर्वाहिकाणां विद्यानामाश्रयीभूता अखिलपुरुषार्थ
साधनोपयोगिविस्तृतवाङ्मयेन च समेता समुन्नतिशिखरम
विष्ठिता आसीदेपास्माकं देववाणी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६६&oldid=355464" इत्यस्माद् प्रतिप्राप्तम्