पृष्ठम्:Prabandhaprakasha.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६
प्रबन्धप्रकाशः
देववाण्या एव प्राचीनकालिकं भुवि विश्रुतं यश: प्रख्यापयति ।
कि बहुना, "शवतिर्गतिकर्मा कम्बोजेष्वेव भाषिता भवति ।
विकार एवैनमार्या भाषन्ते शव इति”, “महान् हि शब्दस्य
प्रयोगविषय: । सद्वोपा वसुमती, त्रयोलोकाः।" महा-
भाष्यादिग्रन्थेषूपलभ्यमानैरेतादृशैः प्रमाणैरपि तस्याः प्राक्का-
लिक: प्रायेण सार्वदेशिक: प्रचागतिशय एव स्पष्टमनृद्यने ।
भारतवर्षे तु प्राचीनकाले तस्या प्रत्युत्कृष्ट प्रभावस्य
प्रचारातिशयस्य च विषये किमु नाम वक्तव्यम् । आबालवृद्ध
माराजरङ्कमापामरप्राज्ञं च तस्याः सार्वजनीनप्रचारविषये
नहि कस्यापि सन्देहलेशस्याप्यवकाशः । साम्प्रतिकहिन्दी-
प्रभृतिभाषायामिव प्राचीनकाले 'अन्वध्यायं भाषायाम्'
( निरुक्के ), 'भाषायां सदवस श्रुवः'
, ( ऋ० ३|२|१०८),
'प्रथमायांश्च द्विवचने भाषायाम् (अष्टा० ७७२९८८), 'सख्य-
शिश्वीति भाषायाम्' (अष्टा०४|११६२ ) इत्यादिप्रमाणैर्भा-
षात्वेन व्यवहार एव तस्याः सार्वजनीनं प्रचारं द्योतयति ।
'प्रत्यभिवादेऽशूद्रे' इति पाणिनिसूत्रेऽशूद्रग्रहणेन, नाटकेषु
संस्कृतभाषाभाषिभिः संस्कृतज्ञपात्रैः सहासंस्कृतभाषिणामपि
नीचपात्राण वार्तालापेन, "उदहारि भगिनि या त्वं कुम्भं
हरसि शिरसानडूबाई साचीन मभिधावन्तमद्रातीरिति”
( महाभाष्ये १११९५८ ) इत्यादिप्रमाणैश्च तस्याः प्रचारो न
केवलं शिक्षितेष्वेव किन्तु प्राकृतजनेष्वपि प्रविहतगतिरासी-
दिति स्पष्टमेवोद्घोष्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६४&oldid=355462" इत्यस्माद् प्रतिप्राप्तम्