पृष्ठम्:Prabandhaprakasha.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१५५
मानया आर्यभाषयास्माकं संबन्ध: भुवि सर्वत्र विश्रुतः ।
अस्यामेव सभ्यजगतः प्राचीनतम साहित्य समुपलभ्यते ।
तदेतादृशेरनन्यसाधारणरुपलक्षिता इयमस्माक देव-
वाणी कस्य नाम नाभिवन्दिता स्यात् ।
देववाण्याः प्राचीनकाले समुन्नतिः
आसीत् समयो यदा खलु साभ्युदयसीमामनुभवन्ती
अभ्युन्नतिशिखरे संस्थिता सर्वत्रापि स्वप्रभावमहिम्ना सर्वेषां
समादरभाजनं बभूव, नानादेशेषु च विस्तृता भारतवर्णस्य यश:
समन्तात्पृथिव्यां प्रसारयति स्म।
कस्याविदितं यन्त्र कंवलं भारतवर्ण एवं किन्तु भारतेतर-
देशदेशान्तरंष्वपि तस्याः प्रचार आसीत् प्राचीनकाले ।
कनेतिहासविदा न श्रुतो भवेत्सुदूरवर्त्तिनि एशिया माइनर'
प्रदेशेऽपि पर: सहस्रवर्णेभ्य: प्रागपि 'बोगाज़काई' (Boghas.
koi) स्थाने समुपलब्धप्राचीनलेखेषूलित खितै: 'इन्द्र', 'वरुण',
'मित्र' इत्यादिभिर्वेदिकदेवतावाचिशब्दैः स्पष्टमनुमीयमान-
स्तस्या: प्रचार: । एशियामध्यप्रदेशेषु इण्डे चाइनाप्रभृतिदेशेषु
महासमुद्रान्त:संस्थितेषु सुदूरवर्त्तिषु 'बालि' प्रभृतिद्वीपेषु च
अद्यपि समुपलभ्यमानैः प्राचीन भारतीयै: संस्कृतग्रन्थरत्ने-
देवालयखण्ड: संस्कृतशिलालेखैर्वापि तस्या एव प्रचाराति
शयस्तेषु तेषु स्थानेषूद्घाण्यते । भारते विलुप्तानां पर:शतानी
ग्रन्थ रत्नानामग्राप्यनुवादरूपेण चीनतिन्त्रतादिदेशेष्ववस्थितिरपि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६३&oldid=355461" इत्यस्माद् प्रतिप्राप्तम्