पृष्ठम्:Prabandhaprakasha.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि१७ सर्वतः स्पृत्वात्यतिष्ठद्दशाङ्गुलम् ||
इत्यादिश्रुतिभिर्गीयमानविराट्पुरुष इव, नानारूप: : पल्ल-
वितः पुष्पितः फलितश्च साम्प्रतं समन्ताद्भारतभूमिमलंकरोति ।
एतद्दृष्ट्या हि सोऽपि “एकाऽश्वत्थः सनातनः" इत्येव' वर्ण-
यितुं शक्यते । शैववैष्णवप्रभृतयः सर्वेऽपि भारतीयधर्मा
स्तस्यैव शाखाप्रशास्वारूपाः । भारतीय संस्कृतीत्यपग्नामा
एक एव जीवनरसस्तान् सर्वानाप्याययति परिपोषयति च ।
तेषां सर्वेषामन्यधर्मेभ्यः किश्चिदनिर्वचनीयं वैशिष्ट्य च
संपादयति । तस्य खलु भारतीय संस्कृतीत्यपरनामधेयस्य
भारतीय जीवनायामृतकल्पस्य जीवनरसस्य सर्वकामदुधा
दोग्ध्रोवेयमस्माकं मातृरूपा देववाणी | अत एव तस्याः
परिपोषणेनैव भारतीय संस्कृते: परिपुष्टिस्तदनुयायिनां सर्वे
पामार्यधर्मावलम्बिनामस्माकं ते । सर्वाङ्गीणा समुन्नतिश्च
संभवति ।
१५४
1
कस्यैतद विदितं यत्प्राय: सर्वेषामण्यार्यधर्मावलम्बिनां
धार्मिकं साहित्यं प्राचुर्येण देववाण्यामेव विद्यते । प्रायेण
सर्वेषामपि आर्यधर्माणामनुयायिभि: आजीवनं तपांसि रूप-
द्भिराचार्यै: संग्रथितानि ग्रन्थरत्नानि देववाण्या : साहित्य-
समृद्धिं सम्पादयन्ति । सर्वसामेव भारतीयभाषाण/-
मुद्गमस्थानभूता चैषा देववाणी । एतद्द्वारैव विभिन्न देशेषु
लैटिन, ग्रीक, इंग्लिश जर्मन, फ्रेंच-इत्यादिरूपैरुपलभ्य-
,
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६२&oldid=355460" इत्यस्माद् प्रतिप्राप्तम्