पृष्ठम्:Prabandhaprakasha.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
देववाण्या श्रवनतिरस्माकं कर्तव्यं च
मान्या विद्वद्वर्याः प्रियच्छ्राणाश्च
,
महत: प्रमोदस्यायमवसरो यदद्य सर्वेपि वयं नानाप्रदेशेभ्य:
समागत्य अस्माकं माननीयाया विश्ववन्द्याया देववाण्या: समु
नतिं कामयमाना आनन्दकन्दस्य नन्दनन्दनस्य भगवतः श्रीकृष्ण-
स्य जन्मभूय पुण्यपुर्या मथुरायामिह संसदि समवेता: स्मः ।
एषा हि खलु देववाणी शेवशाक्तवैष्णव जैनबैद्धादिनाना-
संप्रदायेषु विभक्तानां विभिन्नमतिजुषाम् आपाततः परस्पर विरुद्ध.
त्वेन प्रतीयमानानामपि तेषु तेषु संप्रदायेषु तेषु तेषु मतेषु च ।
एका रस: करुण एव निमित्तभेदा दादू
भिन्नः पृथक् पृथगिवाश्रयते विवर्तान् ।
आवर्तबुद्बुदतरङ्गमयान विकारान्
भो यथा सलिलमेव हि तत्समस्तम् ॥
इत्याद्यनुरूप मेकसूत्ररूपेण आंतप्रोतया एकयैव व्यापिन्या
भारतीय मौलिक संस्कृत्या परस्परं सम्बद्धानां सर्वेषामध्यस्माकं
भारतीय संस्कृत्य भिमानिनामतीव माननीया |
संस्कृतभाषा हि भारतीयार्यधर्म इव सर्वेषामध्यस्माकमार्य-
धर्मावलम्बिनां वरिष्ठ: शेवधिर्गर्वस्य च विषयः । एको हि
आर्यधर्मवृक्षोऽसंख्यशाखा प्रशाखा रूपेणाति विस्तृतः,
-

  • १६, २०/८/१६२६ ईस्वांतिथ्यो: संयुक्त प्रान्तीय संस्कृत छात्र-

संमेलनस्य श्रीमथुरापुर्या द्वितीयाधिवेशने समाध्यक्षस्य ग्रन्थकतुरभि-
भाषणम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६१&oldid=355459" इत्यस्माद् प्रतिप्राप्तम्