पृष्ठम्:Prabandhaprakasha.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२
प्रबन्धप्रकाश:
प्रयत्नो विधेयः । प्रयतनीयं च तथा यथा तत्तद्विषयानधोयाना
अपि संस्कृतच्छात्रा:-
-
(
"hyp
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ मनु० ३२ ॥
उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
सकल्पं सरहस्य च तमाचार्य प्रचक्षते ॥
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्यर्थमुपाध्यायः स उच्यते ॥
मनु० २११४०-१४१ ॥
"ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च"
(महाभाष्ये) इत्याद्यादर्शमनुसरन्तो वेदाभ्यासोऽस्माकं निष्का-
रणो धर्म इति मन्यमाना वेदमध्यभ्यस्येयुरनुशीलयेयुश्च ।
कथमेतत्सर्वं सम्पादयितुं शक्यते, कथं च वेदाध्ययनं द्विज-
मात्र विशेषतश्चार्यजाते: पुरायायिभिर्ब्राह्मणैः क्रियते, कथं
चास्मिन् विषये आधुनिकी प्रचलिता पठनपाठनप्रणाली साधिका
भवितुमर्हति, इत्यादिविचारणार्थमेव वेदानामनुरागिणामनुया.
यिनां च पुरस्तादेष प्रबन्ध: समुपस्थापितोऽस्माभिः ।'
१ संस्कृतरत्नाकरस्य वेदाङ्के पूर्व प्रकाशितोऽयं लेखः किञ्चित्परि
वत्र्यात्र समुद्भ्रियते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१६०&oldid=355458" इत्यस्माद् प्रतिप्राप्तम्