पृष्ठम्:Prabandhaprakasha.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
पुष्येम शरदः शतम् || भवेम शरदः शतम् ||
भूषेम शरदः शतम् ॥ भूयसी: शरदः शतात् ॥
अथर्व०
१० १६/६७/१-८॥
यतो यत: समीहसे ततो नो अभयं कुरु ॥
१५१
यजु० ३६ | २२ |
अश्मा भवतु नस्तनूः ॥ ऋ० ६/७५। १२ ।।
वीर्यमसि वीर्य मयि धेहि ।
बलमसि बलं मयि धेहि । यजु० १९६८
मदेम शतहिमाः सुवीराः । अथर्व० २०६३।३ ।।
इत्यादीनामाशाभावभरितानां वीरतारसपरिप्लुतानामुदा-
तविचाराणाम्, “यतोऽभ्युदय निःश्रेयससिद्धिः स धर्म:”, "तद्व.
चनादाम्नायस्य प्रामाण्यम्" इत्यादिप्रमाणानुरूपमभ्युदयनिःश्रे-
यससाधनस्य वैदिकसदाचारस्य वैदिक कर्मकाण्डस्य च सर्वथाs.
भाव इव सर्वतो दृश्यते । अत एवाम्माकं समाजस्य शिथिला
शर्मा च दशां, नि:श्रीका निस्तेजस्काशच वयं संवृत्ताः ।
प्राचीना: सर्व एव समुन्नता आदर्शा विलुप्तप्रायाः स्मृतिगर्भे
विलीना: संजाताः ।
कर्तव्यम्
समुपस्थितायामेतादृश्यां परिणामदुरन्तायां वैदिकसाहि-
त्यविषयकोपेक्षायां सर्वैरस्माभिवैदिकैः समयानुसारेण यथा-
संभवं पुनरपि वैदिक साहित्यानुशीलनस्य प्रवृत्तेरुज्जीवनाय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५९&oldid=355457" इत्यस्माद् प्रतिप्राप्तम्