पृष्ठम्:Prabandhaprakasha.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१४६
इत्यादिश्रुती: स्मरन्तोऽनुसरन्तश्चार्थदृष्ट्यापि वेदानामभ्या-
समनुतिष्ठन्ति ।
विद्यमानाप्येषा चिरकालादेव वेदविषयेऽस्माकमुदासीनता
साम्प्रतमतिमात्रं वृद्धिं गता । अत एव प्रविरलसंस्कृतप्रचाराणी
सामान्यप्रदेशानां तु का कथा, विद्याया: केन्द्रीभूतस्थानेष्वपि
सत्स्वप्यन्यान्यशास्त्रीय विषय विशेषज्ञेषु वस्तुता वैदिकानां विदुष
प्रायोऽभाव एव दृश्यते । येऽपि विभिन्न विषयेषु पारोवर्यविदो
विद्वांसस्तेऽपि वेदविषयेऽनभिज्ञा एव प्रायशः । वेदानामध्ययनेन
न तेषां किञ्चित्प्रयोजनमितीव तेषां धारणा | महाभाष्यानुसारं
वेदरचार्थ प्रवृत्तस्यान्यान्यसंस्कृतव्याकरणापेक्षया विशेषता
वैदिक प्रक्रियाप्रतिपादकस्य पाणिनीयव्याकरणास्य कर्णधारेषु वा,
वेदानां प्रामाण्याप्रामाण्यं पुरस्कृत्य साग्रहं विवदमानेषु नैया.
यिकपश्चाननेषु वा, वेदप्रतिपाद्यधर्मस्वरूपविचारचातुरीधुरीणेषु
मीमांसाप्रवीणेषु वा, धर्म्याधर्म्यव्यवस्थापकेषु धर्मधुरन्धरेषु पद-
वाक्यप्रमाणपारावारीणेषु वा, 'अस्य महतो भूतस्य निःश्वसितमे-
तद् यहग्वेदः' इत्याद्यर्थपरक 'वेद + अन्त' मधीयानेषु वेदान्ति-
धौरेयेषु वा
वस्तुतो"ऽनेक विद्यास्थानोपबृ हितस्य प्रदीपवत्
सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य महत ऋग्वेदादे :" अनुशीलनस्य
प्रवृत्तेरभाव एव प्रायो दृष्टिपथमापतति । एतस्या दुरवस्थाया
एव एष परिणामो यद्वेदिकत्वाभिमानिनोऽपि वयं केवलं नाम-
मात्रेव वेदानुयायिनः संवृत्ता: |
अत एव--

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५७&oldid=355455" इत्यस्माद् प्रतिप्राप्तम्