पृष्ठम्:Prabandhaprakasha.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८
प्रबन्धप्रकाशः
तदेतत्सर्व प्राचीनकाले पठनपाठन प्रणालयां वेदानामत्युत्कृ
ष्टमनन्यसाधारणं च स्थानं द्योतयति ।
आधुनिकी अवस्था
परं कां दशामनुप्रपन्ना वयमद्यत्वेऽस्मिन्विषये । वेदानामध्य-
यनाध्यापनं विलुप्तप्रायमेवास्माकं दौर्भाग्येण । केचिदेव विरला
अङ्गुलिनिर्देश्याः सर्वभावेन वेदाध्ययनपरायणा दृष्टिपथं प्रयान्ति ।
न चेयमाधुनिकी एव प्रवृत्ति: । चिरकालादेवैतादृग्दुर्दशाग्रस्ता
वयम् । वैदिकत्वेन प्रसिद्धान् काँश्चिद् ब्राह्मणानन्तरेगा केवलं
नाममात्रेणैव वैदिका : सर्वे संवृत्ता: । कस्याविदितं प्राचीन ग्रन्था-
नुसन्धाननिरतस्य यन्नानाशास्त्रज्ञानां पण्डितानां गृहेष्वपि अन्या-
न्यविषयक प्राचीन हस्तलिखित ग्रन्थेषूपलभ्यमानेष्वपि वैदिक-
ग्रन्थानां विशेषतश्च वैदिकसंहितांदिग्रन्थानां प्रायोऽभाव एव
दृश्यते । सर्वमेतद्वेदविषये तेषामनास्थामेव वस्तुतो द्योतयति ।
वैदिकत्वेन प्रसिद्धानां मध्येऽपि केचिदेव प्रविरला एतादृशो ये-
स्थाणुरयं भारहार: किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञान विधूतपाप्मा ||
यद् गृहीतमविज्ञातं निगदेनैव शब्धते ।
अग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥
( निरुक्के १९१८ )
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्र जायेव पत्य उशती सुवासाः ||
( ऋ० १०/७१।४ )
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५६&oldid=355454" इत्यस्माद् प्रतिप्राप्तम्