पृष्ठम्:Prabandhaprakasha.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६
प्रबन्धप्रकाश:
रक्षा चैव परमप्रयोजनमिति तेषु तेषु शास्त्र वेवासकृद् गीयते
सप्रयत्नं स्थाप्यते च
उदाहरणार्थ पातञ्जलमहाभाष्ये एव शब्दानुशासनस्य प्रयो
जननिर्देशप्रसङ्ग प्रायो वेदनिबन्धनेनैव "रक्षोहागमलध्वसन्देहा:
प्रयोजनम्" इति, "सेऽसुरा: । दुष्टः शब्दः । यदधीतम् | यस्तु
प्रयुङ्क्ते । अविद्वांसः । विभक्ति कुर्वन्ति । यो वा इमाम् ।
चत्वारि । उत त्वः । सक्तुमिव | सारस्वतीम् | दशम्यां पुत्रस्य ।
सुदेवो असि वरुण" | इति च प्रयोजनानि प्रतिपादितानि ।
निरुक्तोऽपि, “अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते ।
अर्थमप्रतियता नात्यन्तं स्वरसंस्काराद्देश: ।", "प्रथापीदमन्तरेण
पदविभागो न विद्यते ।", "अथापि याज्ञे दैवतेन बहवः प्रदेशा
भवन्ति तदेतेनापेक्षितव्यम् ।", “अथ ज्ञानप्रशंसा भवत्यज्ञाननि
न्दाच | " इत्युपक्रमैर्वेदाध्ययनमुद्दिश्यैव तत्प्रयोजनान्यभिहितानि ।
किं बहुना, प्रतिगम्भीरस्य वेदस्य साक्षात्परम्परया वा
अध्ययनोपकारायैव प्रायेण विभिन्नशास्त्राणि प्रवृत्तानि ।
तथा चोक्त यास्काचार्येण निरुक्त -
"साक्षात्कृतधर्माण ऋषया बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्म-
भ्य उपदेशेन मन्त्रान्संप्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्म-
ग्रहणायेमं ग्रन्थं समाम्नासिपुर्वेदं च वेदाङ्गानि च ।” इति ।
व्याकरणादीनाम् 'अङ्गत्वेन' मीमांसादिशास्त्राणाम् 'उपाङ्ग-
त्वेन' सर्वविदितं वर्णनमपि वेदानामपेक्षयैव । अत एव पाणि-
नीयशिक्षायामुच्यते-
66
b
·

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५४&oldid=355452" इत्यस्माद् प्रतिप्राप्तम्