पृष्ठम्:Prabandhaprakasha.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
"
कर्मानुगुणफलभोगार्थ जायते, परन्तु मार्गाश्रयादपुनरावृत्तिस्तस्य
नियतैव सप्तसु जन्मसु सम्भ्यूनेषु वा निर्वाणमवश्य भावि ।
द्वितीया भूमि: सकृदागामिपदव्यपदेश्या, तामारूढस्य देवलोक
उपपद्य पृथिव्यां सकृदेव जन्म भवतोति केषाध्विन्मतम् देवलोक
जन्मेत्यपरेषां मतम् । तदेव तस्य चरमं जन्म | तदैव प्रज्ञोत्कर्षा-
निर्वाणमधिगम्यते । अस्य भूमौ 'कामराग: ' 'प्रतिघ'श्चेतिसंयो-
जनद्रय निवर्त्तते । अनागाम्याख्या भूमिस्तृतीया | तस्यां
1
१४२
-
कामरागाभावात् पृथिव्यादौ वा तदन्यस्मिन् कामस्वर्गादौ
कामलोकं वा पुनरावृत्तिर्न सम्भवति । अागामी ब्रह्मलोक सकृ-
देवाविर्भवति । तत्रैव च प्रज्ञाशुद्धिं लब्ध्वा विमुच्यते । स
कस्मिन् ब्रह्मलोक जायत इति रागोच्छेदतारतम्यमपेदय समाधे-
यम् । यस्य रूपरागो विद्यते स रूपब्रह्मलोके तदितरस्तु अरूप-
ब्रह्मलोके स्वात्मानमाविर्भावयति । अरूपरागच्छेदेऽरूपब्रह्मलोके
नोद्भवः सम्भवी । मानौद्धत्याविद्याख्य संयोजनत्रयस्य निवृत्तेर्व-
न्धनकारणत्रयस्य रहितत्वात् निर्वाणं भवति । तच्च सत्यपि देहे
संजायते । तदेव चाईत्व जीवन्मुक्त्याख्यम् | देहपातानन्तरं
परमं निर्वाणमवशिष्यते तच परमार्थः ।
I
तदा प्रभृति जनपदेषु सर्वत्र परिभ्रमन् स सद्धर्म प्रचारया-
मास । केचिद् गृहे निवसन्त उपासका बभूवुः । केचिञ्च गृहं
त्यक्त्वा भिक्षवः । पुरुषवत् स्त्रियोऽपि तस्य शिष्यमण्डले प्रावि-
शन् । क्रमेण विहारसङ्घारामादि स्थाने स्थाने निर्मितमभूत् ।
सङ्घस्य परिचालनोपयोगिनो नियमा निबद्धा जाता: । ब्राह्मणा
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५०&oldid=355448" इत्यस्माद् प्रतिप्राप्तम्