पृष्ठम्:Prabandhaprakasha.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः


विष्करणरूपं तृतीयं सत्यम् अयमेव दुःखनिरोध: प्रस्थानभेदेन
मोक्ष निर्वाणापवर्गामृतनिःश्रेय सादि पदैर्ध्यपदिश्यते । यदिदं जग-
दाडम्बरं परिदृश्यते, तज्ञ्चाविद्याया एव विजम्भितमिति प्रागेवो-
तम् । अविद्यानिरे।धेन दुःखपर्यन्तस्य तत्कार्यचकस्यापि निराधे
सति जगदभावे यदवशिष्यते तदमृत निर्वाणमिति कथ्यते ।
तदेव च शून्यपदभाकू । नहि निर्वाणं वस्तुतोऽभावरूपमिति
विज्ञेयम् । न वा व्यावहारिकभाववदपि तादृशभावानां प्रज्ञा-
दयेऽसत्वात् । निर्वाणम् "असंस्कृत" धातुत्वात् शाश्वत
शिवं द्वन्द्वातीत प्रपथोपशमरूपं परमं सुखम् ।
-
निर्वाणममृतपदम् । तदस्ति तत्प्राप्त्युपायश्चाप्यस्ति । कः
स उपाय: ? अष्टाङ्गयोग इति बुद्धदर्शनम् । वस्तुतस्तु ज्ञाने-
नैवाविद्यानिवृत्तिर्भवति । तस्यां निवृत्तायां क्रमेण संस्कारादि-
निवृत्या दुःखं निवर्त्तवे । ज्ञानसम्पत्तये चाष्टाङ्गयोगमार्ग एव
शरणम् | योगांङ्गानि तावत् - सम्यग्दृष्टिः सम्यक् संकल्पः,
सम्यगूवाकू, सम्यगाचार, सम्यगाजीवः
सम्यक्रूस्मृतिः, सम्यकूसमाधिश्च ।
सम्यगूवीर्यम्,
बहूनां जन्मनामन्ते कस्यचिदेव भाग्यवतः समाधिमनुशील-
यता मनसि प्रज्ञाया: समुदयों भवति । उदितायां तस्यां बन्धन-
कारका दर्शविधा: पाशा: संयोजनाभिधा: क्षोयन्ते । मार्गस्यास्य
चतत्र एव भूमय: । प्रथमा तावत् – स्रोत प्रापत्तिभूमिः, तामधि-
गतस्यार्यस्य सत्कायदृष्टिविचिकित्साशीलव्रतपरामर्शरूपं संयो-
जनत्रय' विनश्यति स पृथिव्यां वा,
करिमन्नपि देवावासे वा,
-
,
)
,
-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४९&oldid=355447" इत्यस्माद् प्रतिप्राप्तम्