पृष्ठम्:Prabandhaprakasha.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४०
प्रबन्धप्रकाशः
Mandariyank
जातिनिबन्धनम् । जातिश्च देहोपलम्भः । तस्यां सत्य जरा
वा रोगों वा मरणं वा सर्वमेव दुःखकारणं सम्भवति । तन्निरोधे
च दुःखोत्पादस्य मूलमेव च्छिद्यते। मरणेन देहनिवृत्त्या दुःख-
बिगमान सम्भवति, देहारम्भक संस्कारादिसश्वात् पुनरपि तस्य
परिग्रहो भवत्येव । देवदेहो वा भवतु,
तिर्यग्देहावा, सर्वत्रैव
पुनदु:खानुबन्ध: संलक्ष्यते । जन्मन: कारणं भवः, स खलु उपा-
दानात्सञ्जायते । यद्बाह्य वस्तु उप समीपे दत्ते तदुपादानम् ।
उपादानस्यासम्भवे भवादयासम्भवात् जातिरपि न सम्भवति
उपादानस्य निमित्तभूता तृष्णा; यावत्सा न शाम्यति तावत्
संतोषाभावात् बाह्यपरिग्रहाकाङ्क्षा तिष्ठत्येव | तृष्णाया: कारणं
वेदनाख्या विषयानुभूतिः, वेदनायाश्च कारणमिन्द्रियार्थसन्निकर्षः
स्पर्श: । स्पर्श: षडायतनादुत्पद्यते । षडायतनं नाम ज्ञानेन्द्रियप-
चक्रं मनश्चेति षड्वर्गः। षडायतनं नामरूपाभ्यां समुत्पद्यते ।
तत्र नाम संज्ञासंस्कारविज्ञानानां संघात: । नामरूपे एकीभूय
पञ्चकन्धं घटयतः । नामरूपये र्निमित्तं विज्ञानम् | विज्ञानस्य
हेतु: संस्काराः । संस्काराश्च सर्व एवाविद्यामूलका: । अवि
द्याया: पुनर्मूलं न किमपि दृश्यते। सैव सर्वानर्थ निदानमिति
तस्या उन्मूलनमेव पुरुषार्थस्वरूपम् । तच्चाष्टाङ्गयोगमार्गपरि-
शोलनलब्धप्रज्ञया साध्यते । एतानि द्वादश निदानानि सौगतानां
ग्रन्थेषूपलभ्यन्ते । समुच्चयेन प्रतीत्यसमुत्पादोऽयमेव ।
तदिदम निशमावर्त्तमानं दुःखचक्रं कदापि निवृत्तं भवितुम
ईति नवेति शङ्कायां सम्भवत्येव तन्निरोध इति तत्प्रशमस्वरूपा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४८&oldid=355446" इत्यस्माद् प्रतिप्राप्तम्