पृष्ठम्:Prabandhaprakasha.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
पीठरूपं, भूमिष्ठमपि भूमिमस्पृशज्ज्ये। तिर्मयम विमुक्तनगरं सम्यक्-
सम्बुद्धस्य धर्मचक्र प्रवर्त्तन स्थानमभूत् ।
तत्र व तेन चत्वार्यार्यसत्यानि दिष्टानि । दुःखमस्तीति
प्रथमार्थसत्यम्, तस्य हेतुरस्तोति द्वितीयम्, दुःखनिरोधो निर्वा.
णाख्य: संभवतीति तृतीयम्, तदुपायभूतोऽष्टाङ्गयोगोऽप्यस्तीति
तुरीयम् ।
तत्र प्रथमार्यसत्यस्य विषये न कापि विचिकित्सा सम्भव-
त्येव । विचित्रकर्मवशेन भोगवैचित्र्यजुषां तत्तद्भागौपयिक संघात-
वतां तत्तद्भ वनवासिनां जीवानां संसरणभूमिरियं दुःखेन कव
लीकृतेति न कस्यापि चक्षुष्मतोऽविदितचरम् । बुभुक्षूगामिन्द्रिय
लौलिकानामनवस्थिते चेतसि संसारस्यासारता क्षणभङ्गुरता
हेयता वा नोदीयमानापि मुमुक्षोर्वैराग्यवत: परमार्थमभीप्सतो
बाह्याथै रमितैश्वर्यमयैर तृप्यतो हृदये नितरां जागर्त्ति । स चोदयोs
चिरस्थे । पि भावान्तरैर्न पराभूयते, क्षणप्रभेव मेघाच्छन्नन भोली-
नैर्दर्शनिशीथतमाभिः । नानाविधमुखदुःखसंकुल: संसारीऽय
सूक्ष्मेक्षिकया दृश्यमान: परिणामतापसंस्कार दु: खैर न्वितत्वाद्
विवेकि भिदु:खमयत्वेनैव विभाव्यते । विवेकपराङ्मुखा भोगला-
लुपचित्तस्तु विषयेभ्योऽनुपरममाणा दुःखानुषक्तसुखेष्वपि काम्य-
बुद्धया प्रवर्त्तमाना दुःखनिवृत्तिमविन्दन् दीर्घसंसारकान्तारेव-
निशं भ्रम योनेयोन्यन्तरं पर्यटति, दुःखमेव च निरन्तरं लभते ।
-
अस्य पुनर्जगद्व्यापिदुःखस्कन्धस्य मूलमविद्या । तत एव
संस्कारादिक्रमेण दुःखसमुदयो भवति । तद् यथा - सर्व दुःख
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४७&oldid=355445" इत्यस्माद् प्रतिप्राप्तम्