पृष्ठम्:Prabandhaprakasha.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१४३
राजानः श्रेष्ठिनो वेश्या अपि त्रिरत्न - बुद्धं धर्म सङ्घ च - शरण-
मुपागच्छन् ।* तदुपदेशमाहात्म्येन बहवोऽर्हद्भाव गताः, बह-
वश्च स्रोता पत्त्यादिभूमिषु प्रविष्टा: । केचित्तु मौद्गलायनवद्
ऋद्धिमन्तोऽपि संवृत्ता: बहवस्तस्य विरोधिनोऽपि विरोधं
परिहाय तस्य सेवकत्व' गृहीतवन्तः | नात्राविश्वासार्ह किमपि
लक्ष्यते । महीयसां महता प्रभावेण सर्वमेव संभाव्यते । +
|
इत्थं चत्वारिंशदधिकवर्ष कालं धर्ममुपदिशन् जीवानुद्धरन्
स कृतकृत्य : पश्चिमे वयसि कुशीनगराख्ये स्थाने देहं मुमोच ||
[ वाराण सेयराजकीय संस्कृत विद्यालयभूत पूर्वाध्यक्ष
श्रीगोपीनाथकविराज महोदयस्य

  • त्रिशरणं खलु बुद्धस्य तत्प्रवर्तितधर्मस्य तद्धर्मावलम्बिसंवस्य च

दैनिकी स्तुतिः - 'बुद्धं शरण गच्छामी'त्यादिरूपा ।
+
स्थूलदृष्ट्या चौद्धो धर्मः शोलानुष्ठानपर इति शोलमधिकृत्य किंचि
च्यते । भिक्षुभिरहस्यैश्च पञ्चशीलमनुष्ठेयम् । तत्त प्राणिहिंसा-
ऽदत्तादानव्यभिचारमृषावादमद्यपानविरतिरूपम् । श्रष्टशीलं तु प्रागुक्तं
शीलपञ्चकं तेन संयोजितं नियमत्रयं च । नियमत्रयं नाम विकालभोजन-
विरतिः, माल्यधारणगन्धद्रव्योपयोगविरतिः, उच्चमहाशयनाभ्यां विर
व्यभिचारविरतिस्थलेऽब्रह्मचर्य्यविरतिबेध्या । प्रष्ट.
तिश्च ।
शीलेन सह नियमद्वययोजनेन दशशीलं भवांत । नृत्यगीतादि-
विरतिः स्वर्णरजतप्रतिग्रहविरतिश्चेति नियमद्वयम् । दशशीलं भिक्षुन्
पञ्चशीलं च गृहस्थानुद्दिश्य प्रवृत्तम् । शीलाचरणेन शमो लभ्यते, तदना-
चरणेनात्मना मूलमपि नश्यति । गृहस्थैर्भिक्षुभिश्चानुष्ठेयेषु बहुविधेषु
धर्मेषु बुद्धेनोपदिष्टेषु शीलापदेश एव सर्व सामान्येन प्रधानः |
C

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५१&oldid=355449" इत्यस्माद् प्रतिप्राप्तम्