पृष्ठम्:Prabandhaprakasha.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२
प्रबन्धप्रकाशः
उदरमिव जगन्निवासस्य भगवतो विष्णोः काशिकापि
सर्वदेश्य सर्वविधजनतासमावृता कामप्यनुपमां सुषमां वहति ।
तत्तत्प्रान्ताभिजनैरत्र
त्यैर्जनैः स्वस्ववीथीषु तथा व्यवस्था विरचिता
वर्तते यथा दशाश्वमेधप्रान्ते वङ्गीयानां सविशेषं निवासात्स प्रदेशो
वङ्गदेश इव लक्ष्यते । एवं हनुमघट्टभागे मद्रासप्रान्तीया एव
निवसन्तीति स विभागी मद्रासप्रान्त इव । एवं महाराष्ट्रीय
मैथिलानां च वसतिप्रदेशो महाराष्ट्रभूर्मिथिला च संलक्ष्यते ।
काशिकाया: पादमूलं चालयन्त्या भगवत्या जाह्नव्या
अवतारतीर्थेषु पक्तिशोऽवस्थिता अनेकमहीपालसुयश: स्वरूपाः
पाषाणानिर्मिता: शताधिका घट्टास्तु सकलभूतलविलक्षणासुषमा
अनन्यसामान्या एव । पञ्चगङ्गातीर्थनिकटे औरङ्गजेबनिर्मापित-
मस्जिदमध्यवर्त्ती समुन्नततमो दूरवीक्षण यूपसौधो (माधोलाल का
धरैरा) बाहुरिव काशिकाया: समाह्वयन्निव धार्मिकान् संलक्ष्यते ।

एवंविधानामसंख्यानामाश्चर्यभूम्नां प्रसवभूरियं वाराणसी
केन वा साकल्येन वर्णयितुं शक्येत सर्वाङ्गीण विशेषविभूषि
ताया अस्याः प्रत्यङ्गमनेके विशेषाः सविशेषं लक्ष्यन्ते; तेषां
सर्वेषां वर्णन वाक्पथातीतमेव । असाध्यमेव माहशामल्पमेध-
साम्
। केवलमत्यन्तं संक्षेपेण सामान्याकारेण सङ्कलितमिदं
वाराणसीवैभवमविशेषविदां यदि किञ्चिदुपकुर्यात्तर्हि सफलो
मे परिश्रम इति ॥
[ साहित्याचार्य श्रीनारायणशास्त्रि खिस्तेमहोदयस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१४०&oldid=355438" इत्यस्माद् प्रतिप्राप्तम्