पृष्ठम्:Prabandhaprakasha.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१३१
यावन्तश्च धार्मिका: काश्यामुपलक्ष्यन्ते न तथान्यत्र ति काशी-
माहात्म्यमेवात्र प्रभवति । अत्रत्यो राजकीय: संस्कृतमहा-
विद्यालय: प्रतिवर्षमसंख्यान विदुषः परीक्षापाथोधिपरतीरप्रापणेन
लब्धप्रतिष्ठान वितन्वन् सुरभारतीमविरतं निषेवते । अत्रत्या
अध्यापक अद्यापि प्राचीनगौरवमक्षुण्णं रक्षन्ति ।
काश्या: परभागेऽसीसङ्गमतीर्थोत्तरप्रदेशे श्रीमतामसामान्य-
गुणगणानां लोकोपकाराध्वरदीक्षितानां श्रीमन्मदनमोहनमाल-
वीयमहोदयानां कीर्ति राशिरिव मूर्तिमान् हिन्दूविश्वविद्यालयो
नयनगोचरीभवति । यत्र सर्वा विद्याः सर्वाः कलाश्च सविशेष
शिक्ष्यन्ते । तत्तद्विषय विशेषज्ञाश्च तं तं विषयं सविशेष-
मध्यापयन्ति ।
इत्थमेव दानशूरस्य निर्भयताप्रथितकीर्तेः सरलहदा धनकुबे-
रस्य श्रीशिवप्रसाद गुप्तमहोदयस्यार्थसाहाय्येन संस्थापितं काशी-
विद्यापीठमपिष्ट्रिय शिक्षाप्रचारैकलक्ष्यं सुलक्षणं संलक्ष्यते । यत्र
महादार्शनिका देश कार्यकरण प्रसिद्धा गम्भीरताभूमयो डॉ० भग-
बान्दासमहोदया: कुलपतिपदे विराजन्ते । तेषामधीनत्वे प्रभूता
विद्वांसस्तानि तानि शास्त्राणि सरहस्यं सप्रयोगं चाभ्यापयन्ति ।
राजमहाराजे: श्रेष्ठिभिश्च व्यक्तिश: संस्थापितानां विद्या
लयानां संख्या तु सम्प्रत्येव शतत्रयादुपरि गच्छन्ती कालकमेण
भवन्तीं तेषामभिवृद्धिं द्योतयति । विद्यार्थिनोऽपि नानादेश्या:
समागत्य घनिभी राजमहाराजैः प्रतिष्ठापितेषु सहस्राधिकेष्वन्नस-
त्रेषु भुजाना धर्मशालासु छात्रावासेषु च विहितव सतयोऽधीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३९&oldid=355437" इत्यस्माद् प्रतिप्राप्तम्