पृष्ठम्:Prabandhaprakasha.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१२५.
निर्वासिता भूत्वा गङ्गायाः परतीरे मगधेषु वासं कल्पितवान् ।
केवलं कृष्णाचतुर्दश्यां भगवन्तं विश्वनाथं द्रष्टुमनुमतस्ता वतैबा-
त्मानं धन्यं मन्यते ।
अत्रैव भगवतो विष्णोरंशभूतेन भगवता धन्वन्तरियापि
आयुर्वेदविद्यासम्प्रदाय प्रवर्तित: । वृद्धकालेश्वर निकटे 'धन्व-
न्तरिकूप' इति प्रसिद्धः सकलामयोपसर्गदूरीकरणपटुरद्यापि
स कूपो भक्तिमद्भिर्जन: सादरमवलोक्यते निषेव्यते च । यत्प्र
भावेण सर्वे रोगा: सहसैव दूरमपसरन्तीति विश्वसन्ति परमा-
स्तिका: सज्जना: |
मुक्ताभियुक्तजनतापरिभूषितायामस्यामेव वाराणस्यां भगवतो
नवजलघर तेर्विष्णोस्तल्पसङ्कल्पसम्पादन समर्पितवपुषो नागरा-
जस्य शेषस्यावतारभूतो भगवान् पतञ्जलिराविभूय महाभाष्यं
प्रणिनाय | तदावासभूते नागकूपेऽद्यापि श्रद्धालवो जनाः
शब्दशास्त्र नैपुण्यकामनया स्नान्ति जपन्ति पूजयन्ति च । श्रावण-
शुक्ले नागपञ्चम्यां प्रतिवर्ष पण्डितानां विद्यार्थिनां च शास्त्रार्थ-
कोलाहल : कामपि कमनीयां कोटिं प्रकटयति । अष्टमे शतके
लब्धजन्मना काश्मीर कण कविपुङ्गवेन दामोदरगुप्तेन स्वकीये
कुट्टिनीमत इयमेव काशी सविशेषं वर्णिता वर्तते ।
बौद्धसाहित्येऽपि जातकेषु प्रायो वाराणसीतिनाम्नास्या
एव काशिकाया: सौभाग्यसम्पत्समृद्धि: सातिशयं वर्णिता
दृश्यते । काश्या निकट एव सम्प्रति 'सारनाथ' इतिनाम्ना
प्रसिद्ध स्थानं बौद्धकाले 'मिगदाव' इतिनाम्ना प्रसिद्धमासीत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३३&oldid=355431" इत्यस्माद् प्रतिप्राप्तम्