पृष्ठम्:Prabandhaprakasha.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६
प्रबन्धप्रकाशः
यच्च जातकानुसारेण मृगरूपेणावतीर्णस्य भगवता बुद्धस्य निवास-
स्थानमिति पवित्र तीर्थात्मना बौद्धरद्यापि सम्मान्यते । तत्रैव
तदनु सम्राजाशोकेन निखात: स्तम्भाऽद्यापि समतीतसाद्ध-
द्विसहस्र संवत्सर मैतिह्य मितिहास रसिकानां पुर: समुपस्थाप-
यति । इदमेव हि लोकोत्तरत्वमस्याः काशिकाया यदसौ
सनातनधर्मस्य मातृगृहभूतापि बौद्ध जैनादिधर्माणामपि प्रसार-
लीला भूमिर्बभूव । इदमेव हि धर्मचक्रप्रवर्त्तनस्थानं बौद्धानाम् ।
प्रसद्धानेक तीर्थङ्करलीला भूमिश्च जैनानाम् । बौद्धयुगे च
गङ्गायां नौकाद्वारा व्यापारस्य केन्द्रभूतमिदं नगरमासीत् ।
जातकंषु अत्या धनिनो महाजना: 'सेट्रि' नाम्ना व्यपदिष्टा:
सन्ति । तदानों काशिकं वस्त्र द्वीपान्तरेष्वपि रत्नमित्र परि-
गण्यते स्म ।
अथ बौद्धप्रभावादस्तमितप्रायं सनातनधर्ममुद्दिधोर्षुः शङ्करा
बतारा भगवान् शङ्कराचार्योऽपि केरलेषु लब्धजन्मा काश्यामुप
गतो चाण्डालवपुर्धारिया भगवता व्यासेन स्पृष्ट: सन्नात्मान-
मशुचिं मन्वानो तेन परिबोधित एव तत्त्वज्ञानमवाप्तवान् |
अन्वभूच सपदि ज्ञानोत्पादनमाहात्म्यं काशिकायाः । एव-
मेवान्येऽप्याचार्या: सम्प्रदायप्रवर्त्तका: काशीनिवासमहिम्ना
लब्धपरिशुद्धावबोधा एव जनानुपदेष्टु मोक्षमार्गे प्रवर्त्तयितुभ्य
प्राभवन् । वैष्णवेषु श्रीवल्लभाचार्यस्य काश्यां सुचिरं निवास
आसीदिति तु शतश: प्रमाणजातैरपरोक्षमेव प्रेक्षावताम् । वङ्गीय
वैष्णव सम्प्रदायप्रधानप्रवर्त्तकः श्रीमान् चैतन्यदेवोऽपि काश्यां
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३४&oldid=355432" इत्यस्माद् प्रतिप्राप्तम्