पृष्ठम्:Prabandhaprakasha.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२
प्रबन्धप्रकाश:
अयं च राजा व्यसनाभिभूतो
मित्रैर मित्र प्रतिमैर्भवद्भिः ।
अवास्यते राक्षसनाशनार्थे
तोचण: प्रकृत्या ह्यसमीक्ष्यकारी ||
सुनीतं हितकामेन वाक्यमुक्त दशानन |
न गृहूगान्त्यकृतात्मानः कालस्य वशमागताः ॥
इत्येवमवबोधयन्तमपि विभीषणं तिरस्कृत्य प्रहस्तादीनि कपट-
मित्राणि स्वार्थपराणि समाश्रित्य प्रणाशं गतः ।
यस्तु पुनर्निरुपधिसुहृत्सौहार्दपोतमारूढः संसारयात्रापरों
भवति नूनमसौ विपत्स्वपि कुशली स्वाभीष्टं याति । यथा हि
भगवान् श्रीरामचन्द्रो हनुमन्तं लक्ष्मणं सुग्रीवं च समाश्रित:
समस्ता दुस्तरा अध्यापदः समुत्तीर्य मुहुः स्वाभिलषितं लेभे ।
यथा वा धर्मसूनुरजातशत्र भगवन्तं श्रीदेवकीनन्दनं समाश्रित्य
सर्वापदः समुत्तोर्णवान् ।
ततश्चावितथमेवैतद्यन्निरुपधिसुहृत्सौहार्दपीतमारुह्य व मान-
वोऽशेषापद: सकुशलं समुत्तीर्य, सुखेन च संसारयात्रामतिवाह्य
स्वाभीष्ट लभते ।
तदेतदखिलमालोचयतः कस्यचिद्विपश्चिच्छिरोमणेरिदमर-
विन्दान्योक्तिरूपं सुभाषितं वचः स्मर्यमाणमतितरामभिरामं
मनो हरति -
अयि दलदरविन्द स्यन्दमानं मरन्दमित दि ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३०&oldid=355428" इत्यस्माद् प्रतिप्राप्तम्