पृष्ठम्:Prabandhaprakasha.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
आपद्गतं न च जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ||
सम्पत्तौ च विपत्तौ च यस्तिष्ठति स बान्धवः ।
तन्मित्रमापदि सुखे च समक्रियं यत् ।
इत्यादिवचसामनुरूपं सम्पत्ताविव विपदास्वपि सहाय: प्राण-
पौरप परप्राणत्राणं विदधाति । नासौ मुधैव स्वीयमनो-
रथसंसाधनाया हितमपि हितमिव वर्णयन् सततं मधुरैर्वचोभिरेव
स्वमित्रं रजयितु चेष्टते प्रत्युत “अप्रियस्य च पथ्यस्य
वक्ता श्रोता च दुर्लभः" इत्यनुसारमप्रियमपि हितं ब्रवीति ।
न पुनर्जातु प्रियमहितम् । एतादृशमेव सुहृदमाश्रितः तत्सौहार्द-
पोतमारुह्य मर्त्यः सुखेन संसारपारावारमुत्तरीतु प्रभवति ।
अत एवोच्यते-
१२१
-
आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमला: ।
न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ॥
नैवात्र संशयलेशावकाशः । मन्ये एतमेवार्थमनुवदि
विस्तृतोऽसौ भुवि भारतीयेतिहासतन्त्रगिरां सन्दर्भः, यतः
समस्तेष्वपि सूक्ष्मेत्तिकया समालोच्यमानं विविवृत्ततन्त्रेषु प्रय
मेवार्थो घनीभावमापनो नवनीतायते |
तथाहि कस्य तावद् दुर्योधनेतिवृत्तम विदितम् यदसी
भीष्म विदुरैरी निरुपधिसुहृदावनादृत्य कर्णादीन् समाश्रितोऽन्त
कान्तिकं समूलं प्रस्थितः । केन वा राक्षसराजो लोकरावणो
रावणो ये।ऽसौ निरुपधिमित्रं
न श्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२९&oldid=355427" इत्यस्माद् प्रतिप्राप्तम्