पृष्ठम्:Prabandhaprakasha.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
माणः, करालकालग्राहादात्मानं रक्षन्, मोहसलिलप्रचलदुर्मि-
मालास्वपि कुशली संसारयात्रामतियापयितुमलं भवेदिति मीमां-
सायां विचारपथमवतीर्णायामयमेवार्थः प्रमितित्वेन वक्तव्यो यन्त्रि-
रुपधिसुहृत्सौहार्दपोतमारुह्य संसारार्णवं समुत्तरीतुं वाञ्छावता-
कुतोभयेन संसृतियात्रापरेण भवितव्यम् ।
स्वल्पपरिणाहमध्येतद्वचा रत्नमिवार्थसारवत्, तथ्योपदेश-
धारि परमेोपकारि च । तथा च, यथा हि कश्चिदध्वनीनो
महान्तमतितरलतरङ्गभङ्ग समाकुलमध्युषितविकरालनकचक्रवालं
व्याप्तवाडवानलं पारावारमवेक्षमाणः, एकाकी गन्तु' पारमपारयन्,
कश्चित् परविपत्तिखेदाकुलमनभिसन्धायैव स्वार्थ सततमितर-
हितार्थबद्ध परिकरं सम्पदापत्सहायं करुणावरुणालयं कर्णधार
माश्रितस्तत्पात मारुह्य निखिलापदाभ्यो निर्विशङ्क: सकुशलं यात्रा-
मतिवाह्य पारेसागरं याति । तादृशो हि कर्णधार उपस्थितायाम-
प्यापदि नहि जातु यात्रिीणां सङ्गत्यागं विधाय तत्साहाय्य-
सम्पादनाद्विरमति, परं पर प्राणत्राणाय प्राणानप्युपहारीकरोति ।
यस्तु अभिसन्धाय स्वार्थ द्रव्यादिलाभरूपं कश्चित् यात्रिणस्ता.
रयति, नहि तत्पोतमारुह्यापि कश्चिन्निर्विशङ्कः गन्तु' पारं पार-
यति । यावत्सम्पत्तिकालमसौ भवतु तेषां सहाय: । विपदः
पुनर्नामापि श्रुत्वा दूरतस्तत्सङ्गं त्यक्त्वा स्वात्मत्राणार्थ व्रजति
एवमेवेह संसारपारावारेऽभिहितबहलापत्परम्परापरिपूर्ण
नैकाकी कश्चिजातु पारगमनाय प्रभवति, यावन्नासौ परसाहा-
य्यमादत्ते । तत्रापि चेदभिसन्ध्याय स्वार्थम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२७&oldid=355425" इत्यस्माद् प्रतिप्राप्तम्