पृष्ठम्:Prabandhaprakasha.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८
अयि दलदरविन्द स्यन्दमानं मरन्दं
तब किमपि लिहन्ता मञ्जु गुञ्जन्तु भृङ्गाः |
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्
परिमलमयमन्यो
बान्धवो गन्धवाहः ॥
बहुविधविपज्जाल-
इमं खलु मोहसलिलप्रचलर्मिमालाकुलं
ज्वालावलीसुदुःसहं संसृतिपाथोनिधिम् जाग्रत्यपि निखिलभूत-
जातजर वितरि सततमखिलजगद्मसनसमुन्मुखेऽतिदारुणे कराल-
कालग्राहपांसने, सुधीरधुरन्धरोऽपि बलिनां बलिष्ठोऽपि इतरसा-
हाय्य निरपेक्षः कोऽन्वेकाकी समुत्तितीर्षुः पारं गन्तु पारयति ।
नहि जातु कश्चित्सुधोरपरसाहाय्यनिरपेक्षः क्षणमपि तदुत्तितीर्षा-
सङ्कल्पं मनाङ् मनस्याकलयिष्यति । सत्यप्येवं कोऽपि मेषमुग्ध-
स्तत्संरलं विभाव्य यदि तद्यापारव्यापतो वर्त्तेत, नूनं स्वात्मा
तस्य न प्रियः, यदेवं जानन्नप्यसौ स्वयमेव पादौ कुठारघातं हन्ति ।
घ्र वमसावेवमेव वक्तव्यो यदनेनाबोधान्धान्धौ निमग्नेन "कृपाणेन
स्वेन प्रहृतमिदमात्मन्यकरुणम्” इति । तदेवं की नु प्रेक्षावानवग-
च्छन्नध्येनमतिदुस्तरं संसारार्णवम्, जगति लघिष्ठान्यपि कार्य-
जातानि परसाहाय्यमन्तरेण कत्तुमपार्यमाणानि चावलोकयन,
एकाकिना परसाहाय्यमन्तरेय तरणीयमभिधातुमुत्सहिष्यते ।
9
ततश्चाभिहितगुगामेनं नितान्तदुस्तरं संसारार्णवं समुत्तिती-
षुणा यात्रिणा किन्नु वस्तु समाश्रयणीयं यदवलम्ब्यासी समुत्तर-
नमुं संसारसागरं नानाविधविपज्जालज्वालाभ्यः स्वात्मानं त्राय-
प्रबन्धप्रकाशः
"

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२६&oldid=355424" इत्यस्माद् प्रतिप्राप्तम्