पृष्ठम्:Prabandhaprakasha.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
यथा वा, महाभागो राजराजो नलश्चक्रवर्त्तिराज्याद्विच्या.
वितः कालपासनेनारण्यादरण्यानीं भ्रमन्नपि महत्कष्टजातं
सहमानोऽपि
विपदि धैर्यमथाभ्युदये क्षमा
११७
प्रकृतिसिद्धमिदं हि महात्मनाम् ||
न मृतो जयति शत्रून् जीवन् भद्राणि पश्यति ।
मृतस्य भद्राणि कुतः ।
काल: समविषमकर: परिभवसम्मानकारक: काल: ।
इत्यादिवचाऽनुकूलं कालविहितमापत्समयं भाविन्या: सुख-
सम्भूते: प्रत्याशया निनाय । एवमेवान्येऽपि सहस्रशो दृष्टान्ता
आबालप्रसिद्धाः |
तस्माद वित्तथ
मेवेदं यदापदापगाप्रवाहपतितेन धैर्यमवलम्व्य
निजदुःख सन्ततेरनित्यतामवगच्छता भाविन्या: सुखसम्पत्ति
सन्ततिसम्भूते: प्रत्याशया निजप्रागात्राणं विधेयमिति। तदत्र
स्मर्यतामे तदखिलमालोचयतः कस्यचिद्विपश्चितामपाश्चात्यस्येदं
सुभाषितम्-
कोकिल तावद्विरसानित्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२५&oldid=355423" इत्यस्माद् प्रतिप्राप्तम्