पृष्ठम्:Prabandhaprakasha.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
संपदा महतामेत्र महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागा: क्वचित् ||
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैन्यमन्त्रातिरिच्यते ||
इत्येवं चिन्तयन्तः, इह संसारयात्रायामपरिहार्यः खल्वापदां
समागम: आगमापायिनोऽनित्याश्चैते कष्टापाता इति च विश्व-
सन्तोऽनायासेनैव तं समयमतिबाह्य स्वाभीष्टमासादयन्ति ।
"
११५
,
किञ्चत्रेतदपि विचारणीयं यत् कालः खल्वेष चक्रनेमिक्रमे
व जगदखिलं शास्ति । तथा च अस्थिरे हि सुखिदुःखिनोः
सुखदुःखे ! क्षणेनैव जनेा दुःखसागरे प्रक्षिप्यते, चणेन च
सुखसम्पत्तिमासाद्य सुखी सञ्जायते । नितरां मोदमाना: चणेने-
वानुकम्पनीयदशामासादयन्ति । बहवश्च चिराय महता दुःखेन
कालमतिवाहयन्तः सहसैव महतीं सुखसम्पदमधिगच्छन्ति ।
नैवैकान्ततः कस्यचिद् दुःखाधिगतिः सुखसमागमो वाऽऽकर्ण्यते ।
सर्वेषामपि तयारन्यतरेगा समागमोऽस्थिरः क्षणभङ्गरश्च । ततश्चैवं
चक्रनेमिक्रमेण जगच्छासति काले नियतमेव सर्वोऽपि कदाचन
कष्टमापद्यते, कष्ट मधिगत्य च सुखी भवति इति नियमानुराधेनो-
पस्थितास्वपि कदाचिदापत्सु - येनेयमवस्थापस्थापिता नूनं
तेन कालेन मुहुरपि प्रथमावस्था प्रापयिष्यते - इति प्रत्याशया
त्याज्यं न धैर्य विधुरेऽपिकाले
-
·
धैर्यात्कदाचित्सुखमाप्नुयात्सः ॥
इत्यादेशानुरूपं बुद्धिमता धैर्य संरक्षणोयम् । यतः सन्तो हि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२३&oldid=355421" इत्यस्माद् प्रतिप्राप्तम्