पृष्ठम्:Prabandhaprakasha.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४
प्रबन्धप्रकाश:
भूषण: प्रख्यातकीर्ति रमितबलश्चासीत्, यस्मात्प्रोत्खातारातिकु-
लकाननाद्वित्रस्ता भीतिचकिता विपक्षा नान्यं स्वमाश्रयं त्रागां
वामन्यन्त - तमपि महीयांसं राजराजपदमुपभुञ्जानं सहसार-
व्यादरण्यानीं भ्रामयति ।

,
तदेतां कालविहितां भीषणामवस्थामवेक्षमाण: को नु प्रज्ञा-
वान् सर्वदा कस्याप्येकैवावस्था स्थास्यतीति वक्तु' शक्नोति ? नैव
खल्वेवमेनेन समाक्रान्ते भुवने कस्याप्येकर सेनैवाव स्थितेश्चिराय
संभवः । नूनं योऽद्य मोदमान स्तिष्ठति [अन्येस्तस्योपरि महद्
दुःखं समापतति । ततश्चैकर सेनावस्थिते: सततमसम्भवादाप-
दापगाप्रवाहपतितेन किमवलम्ब्य दुःखोदधेः स्वात्मा परित्रातव्य
इति विचारणायामयमेवार्थ: प्रमितित्वेन वक्तव्यो यद् धैर्यमवल-
म्व्य निजदुःख सन्ततेर नित्यतामवगच्छता भाविन्या: सुखसम्पत्ति-
सन्ततिसम्भूते: प्रत्याशयैव तेन निजप्राणत्राणं विधेयमिति ।
महाजनपरिगृहीती ह्यष मार्गः । एनमनुसरन्त एव सन्त: संसार-
यात्रायां सफला भवन्ति । इह लोके हि ये निराशावादि-
नोऽश्रद्दधाना अधीरास्ते हि विपत्पाते न केवलं स्वाभीप्सितकार्य-
साधनादेव भ्रष्टा जायन्ते, किन्तु प्रायो निजजीवनधारणमपि
दुर्वहं भारमिव मन्यमाना: स्वप्राणत्यागोन्मुखा अपि भवन्ति ।
अथवा महता दैन्येनैव तमापत्समयमतिवाहयन्ति ।
५.
ये पुनराशावादिनः श्रद्दधाना धैर्यधनास्तं हि कदर्यसेवितम
कीर्तिकरमस्वर्ग्य च पूर्वोक्तं पन्थानमुत्सृज्य "आशावतामयं
लोक: ", "श्रद्धावान् लभते सिद्धिम्",

.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२२&oldid=355420" इत्यस्माद् प्रतिप्राप्तम्