पृष्ठम्:Prabandhaprakasha.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1
११२
( ६ ) संस्कृतभाषया सहोपयोगिनामन्येषां विषयाणामध्य-
ध्ययनं विधेयम् । तद्यथा गणितस्येतिहासस्य भूगोलविद्यायाश्च ।
अनेनैवोपायेन संस्कृताध्येतृप सामान्यव्यवहारबुद्धः समुत्पत्ति:
सम्पादयितुं शक्यते । अन्यथा
प्रबन्धप्रकाश:
अपि शास्त्रषु कुशला लोकाचारविवर्जिताः ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥
इत्युक्त्यनुसार साम्प्रतमिव सदा व्यवहारबुद्धिशून्या: संस्कृता-
ध्येतारः प्रायेणोपहास्यतामेव यास्यन्ति ।
(७) नूतनपाश्चात्यविद्यानां स्वदेशीयप्राचीन विद्यानां च
समन्वयार्थ याथार्थ्यन तासां गुणदोषविवेचनार्थ च समालो-
चनाबुद्धे: प्रादुर्भाव: परिमार्जनं च संस्कृतशेष्त्रतीवावश्यके ।
एवमेव ते प्राचीनाचार्या इव तत्तद्विद्यासु नूतनविचाराणां सृष्टौ
समर्था भवितुमर्हन्ति । नान्यथा |
त एते समासत एव गीर्वाणवाण्या अभ्युदयोपाया
निर्दिष्टा: । आशा गुणदोषविवेचका माननीयास्तत्रभवन्तः
सामाजिकास्तदेतत्सर्व विचार्य यदत्रानुपयोगि सदोषं वा तदप-
हाय यदुपयोगि गुणयुक्तौं च तदङ्गीकरिष्यन्ति । यतो हि "गुण;
गृह्या वचने विपश्चित:" । ततश्चान्ते सविनय ममैषाभ्यर्थना-

सारं ततो ग्राह्यमपास्य फल्गु
·
हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥
इति ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२०&oldid=355418" इत्यस्माद् प्रतिप्राप्तम्