पृष्ठम्:Prabandhaprakasha.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१११
वा रघुवंशादिकाव्यानि च पठितु प्रवृत्ता जायन्ते । एवं च
तेषां परिश्रमस्य समयस्य च व्यर्थमेव नाशो भवति ।
( २ ) उपयोगिग्रन्थ सञ्चार: । उक्तहेता: संस्कृतभाषायां
तत्तद्विषयेषु प्रविवितणां हितदृष्ट्योपयोगिबालपाठावल्या-
दीनां तत्तद्विषयेषु च बालोचितपाठ्यपुस्तकानां निर्माणमा
-
वश्यकम् ।
( ३ ) प्राचीनग्रन्थानां विशेषत आकरग्रन्थानामुद्धाराय
तेषां पठनपाठनप्रचारोऽत्यावश्यकः । नवीनप्रन्थानां वस्तुतोऽ-
र्थावगमाय तत्तच्छास्त्रायामितिहासस्य ज्ञानार्थ चाप्युक्तार्थस्या-
वश्यकता | अन्यथा "मूले शुष्क नैव पत्रौं न पुष्पम्” इति
न्यायेन नवीनप्रस्थानामपि हासोऽनिवार्य: ।
(४) शिक्षणविधौ
दक्षाणामध्यापकानामावश्यकता ।
अध्यापन कार्ये विशेषतश्च बालानामध्यापने दक्षाणामध्यापका-
नामतीव्रोपयोगिता । एवमेव सुलभोपायेनाल्पसमयेनानायासेन
च बालानां तत्तच्छास्त्रषु प्रवेश: कतु शक्यते । ततश्च यथावश्य-
कमध्ययनाध्यापनविधौ परिनिष्ठिता अध्यापका यथा सम्पद्येरं-
स्तथा विधेयम् ।
4.
( ५ ) संस्कृतज्ञेषु सौहार्ददार्थाय तत्तद्विद्यालयेषु पाठशा-
लासु च विद्यापरिषदामावश्यकता यत्र विभिन्नविषयानुद्दिश्य
प्रेमपुरःसरं लेखद्वारान्यथा वा वादविवादव्यवस्था भवेत् ।
एवमेव च सभासचालनकुशला वक्तृवाशक्तिसम्पन्नाश्च संस्कृत-
भाषाध्येतारा भवितु प्रभवन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११९&oldid=355417" इत्यस्माद् प्रतिप्राप्तम्