पृष्ठम्:Prabandhaprakasha.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
मतिरस्मिन् विषये ।
"परमद्यत्वे संस्कृताध्यापकानामतीवानुदारा
आतां तावद् द्विजातिव्यतिरिक्तानां शूद्राणामध्यापनम् ।
द्विजानामपि सर्वेषामध्यापने महान्तं सङ्कोचमनुभवन्त्ययतनोया
विद्वांसः । हिन्दूजास्यन्तर्गतानामपि जैनादीनां त्वध्यापनवार्तव
प्रायस्तेषां शिरःसु पीडां समुत्पादयति ।
( ५ ) असहिष्णुता । प्राय: संदृश्यते यत्संस्कृतिविद्वां-
सोऽतीवासहिष्णवो न हि तथा परस्पर सौहार्देन सॉमनस्येन
च वर्त्तितु समर्था भवन्ति यथेंग्लिशादिभाषाणामध्येतार: । एक-
स्मिन्नेव विद्यालयेऽध्यापनकार्यमाचरत्सु तेषु परस्परमीर्यादि-
बाहुल्यमालोक्यते ।
.
थै हृदयविदारिकायामवस्थायां समुपस्थितायां कथं
पुनरपि तस्याः प्रचारबाहुल्यं सम्भाव्यते किं च तामुन्निनीषुभि-
स्तदर्थ कर्तव्यमित्यधस्तात् संक्षेपेणैव द्योत्यते । यद्यप्यवनति-
कारण विचारणयैव सामान्यतोऽर्थादापद्यते के क उपायास्तस्या
उन्नतेरिति, तथापि विस्पष्टार्थमन्येऽपि केचिदुपाया निर्दिश्यन्ते ।
एतेषामुपायानां विचारण केषाचित्पूर्वमनुक्तानामवनतिकारणा
नामपि भानमर्थापत्या भविष्यति । उन्नतेरुपायाश्चैते-
, ( १ ) पठनपाठनशैल्या संस्कार | अद्यत्वे छात्राणां
तत्तद्विषयेषु तत्तद्ग्रन्थेषु चाधिकारिखानधिकारित्वनिर्णयं योग्य-
त्वायोग्यत्वविचारं चान्तरेणैव तत्तद्ग्रन्थांस्तानध्यापयितुं प्रवर्त्तन्ते
प्रायश: संस्कृताध्यापका: । उदाहरणार्थमनेके छात्रा: संस्कृत-
वाक्यरचनामध्यजानन्तो लघुकौमुदीं वैयाकरणसिद्धान्तकौमुदी

www.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११८&oldid=355416" इत्यस्माद् प्रतिप्राप्तम्