पृष्ठम्:Prabandhaprakasha.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
( २ ) अर्थगौरवमन्तरेण शब्दाडम्बरेऽत्यादरः । गद्यपद्या-
त्मकेषु काव्यग्रन्थेषु प्रसिद्धमेवैतत् । प्राचीनानां कवीनामर्था-
लङ्कारेषु यादृश: समादरा न तादृशः शब्दालङ्कारेषु । उत्तर-
कालवर्त्तिना कवीनां तु विषय एतद्विपरीतमेव । एतादृश्येव
दशान्यविषयक ग्रन्थेष्वपि विद्यते 1
( ३ ) विचाराणामनुदारता सङ्कीर्णता च । प्राचीनदर्श-
नादिग्रन्थानामनुशीलनेन स्पष्टमेतत्प्रतीयते यत्तेषां कर्तारः स्व-
विरुद्धमतानामपि सम्यगेवाध्ययनं मननं च कृत्वैव तेषां खण्डनाय
प्रवृत्ता आसन् । ज्यै तिषादिविषयेष यवनाद्याचार्याणामपि
सिद्धान्तान् सम्यगधीत्य तद्विषये स्वभाषायां निबन्धान् निबध्य
तेषां प्रचारं कृतवन्तः । जैनादिनिर्मितानामध्यमरकोशादिग्रन्थ-
रत्नानां सादरमध्ययनाध्यापनं प्राचीनकाले क्रियते स्म । या च
परिपाटी अद्यापि दिष्ट्या न सर्वथा समुच्छिन्ना | समुचितमेव
चैतदाचरणमासीत् | विरुद्धविचाराणां सङ्घर्षत एव द्वयोर्मल्लया:
परस्परमल्लयुद्धन तयोर्बलस्येव, ज्ञानस्योन्नतिरुत्कर्षश्च जायते ।
अन्यथा कूपमण्डूक वदाचरन्तोऽनुदारविचारा: सङ्कीर्णहृदयाश्च
मानवा अवनतेमु खमवश्यं पश्यन्ति । अद्यत्वे चिरकालादेव
सर्वथानुदारा एतस्मिन् विषये संस्कृतभाषाध्ययनाध्यापनकर्तारः
सञ्जाताः । न केवलं नूतनपाश्चात्यविचाराणामेव विषये तेषामे-
तादृशी सङ्को मतिः, किन्तु स्वदेशीयविरुद्धमतानामपि विषये ।
( ४ ) तस्या: शिक्षणेऽनुदारता । उपरि निर्दिष्टमेव यत्पुरा -
काले भारते सर्वसाधारण जनतायां देववाण्या प्रचार आसीत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११७&oldid=355415" इत्यस्माद् प्रतिप्राप्तम्