पृष्ठम्:Prabandhaprakasha.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
यादिभिरेव वा तस्या अध्ययनाध्यापनं परित्यक्तम्, किन्तु ब्राह्म-
गोष्वपि अत्यल्पा संख्यैव तस्या अध्ययनाध्यापनपरा दृश्यते ।
तन्त्रैतस्याः प्रत्यक्षाया अवनते: कानि कारणानि, कथं च
तस्याः पुनरपि प्रचारबाहुल्यं सम्भवतीति विचारणीयम् । प्रथमं
तावदवनतिकारणानि संगृह्यन्ते ।
अवनतिकारा निर्देशप्रसङ्ग एतत्तावदवधारणीय यदुक्ताव-
नते: कारणानां द्वैविध्यं वर्तते । प्रथमं खलु तानि कारणानि
सन्ति येषां विषये संस्कृतभाषाभ्युन्नति चिकीर्षवो वय चिर-
कालादेव निरुपाया विवशाश्च संवृत्ता: स्म: । तद्यथा विदेशीय-
राजशासनम्, विदेशीय सभ्यताप्रचारः, आधुनिक भारतवर्षे
विभिन्नानां नूतनधर्माणामुदयो विभिन्नधर्मिणां सङ्घर्षश्च । निय-
तमेव सत्स्वेतेषु सर्वथा नूतनकारणेषु संस्कृतभाषाया: पुनरपि
प्राक्कालीना समुन्नतिरसाध्या । परमुक्तकारण भिन्नानि यानि
तदत्रनतिकारणानि तेषां प्रतीकारविषये सर्वथैत्र स्वाधीनाः पर-
मुखानपेक्षिणश्च वयम् । अतएवात्र प्रसङ्गे तेषामेव निर्देश:
समुचितः । तादृशकारणानि चैतानि -
एव
( १ ) लेखशैल्या: काठिन्यम् । प्राचीनग्रन्थानां विषये
सर्वविदितमेवैतद् वृत्तं यत्तेषां लेखशैली स्वाभाविकी
सरला प्रसादगुणबहुला च विद्यते । नूतनग्रन्थानां पुनरन्य-
थैव गाथा | मूलमन्थानामपेक्षया टीकाग्रन्थानामधिकतरं
काठिन्यं कस्याविदितम् । न चैतादृशं वृत्तमन्यासामुन्नताना-
माधुनिकीनां भाषाणां विषये ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११६&oldid=355414" इत्यस्माद् प्रतिप्राप्तम्