पृष्ठम्:Prabandhaprakasha.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
काव्यं करोमि न हि चारुतरं करोमि
यत्नात्करोमि यदि चारुतरं करोमि ।
मौलिमणिमण्डितपादपीठ !
भूपाल
हे साहसाङ्क ! कवयामि वयामि यामि ॥
( भोजप्रबन्धे भोजं प्रति कुविन्दस्यैकस्य वचनम् )
इत्यादिसाक्ष्यानुसारं न केवलं मनुस्मृत्यादिधर्मशास्त्राणामादेश-
मनुसृत्य द्विजेष्वेव तस्याः प्रचार आसीत्, किन्तु द्विजातिव्यति-
रिक्त: सूतकुविन्दकुम्भकारादिभिरपि साधीयते स्म । “प्रत्यभि
वादेऽ” इति पाणिनिसूत्रेऽशूद्रग्रहणेन, निरुक्तेऽष्टाध्याय्यां च
तस्या भाषात्त्रव्यवहारेगा च तस्याः प्राचीनकाले सार्वजनीन:
प्रचार एव द्योत्यते ।
किच्च
१०७
मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात् ।
ध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥
इत्यनेन कुलपतिलक्षणेन इतिहासप्रसिद्धानां नालन्दातक्षशिला-
दिविश्वविद्यालयांना मद्यतनीयानामपि विदुषां विस्मयोत्पादकेन
वृत्तान्तेन च देववाण्या: पुरा प्रचारातिशय एवानुमीयते
भारतवर्षे ऽप्यनुपलब्धानामनेकेषां संस्कृतग्रन्थानां चीनतिब्बत-
प्रभृतिदेशीयभाषासूपलब्धैरनुवादग्रन्थैरपि देववाण्या: सैव ।
गुणगाथा गीयते ।
एवं सति,
अद्यत्वे विस्तरदृष्टयाऽन्यथा वा सर्वथा संकुचितगात्रा
हीना दोना च दृश्यमाना सा कथं न कदर्थयेदस्माकं चेतांसि |
न केवलं द्विजातिव्यतिरिक्तैः कुविन्दादिभिर्ब्राह्मणव्यतिरिक्त: क्षत्रि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११५&oldid=355413" इत्यस्माद् प्रतिप्राप्तम्