पृष्ठम्:Prabandhaprakasha.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
कमपि गूढ विमर्शसापेक्षं विषयमवलम्ब्यालोचनात्मकदृष्ट्या
यथावश्यकं पक्षप्रतिपक्षनिर्देशेन च तद्गुणदोषादिविवेचनपरा:
प्रबन्धा आलोचनात्मका (Reflective Essays ) 3च्यन्ते ।
अस्मिन्विषये प्रविविक्षूणां दृष्ट्या सामान्यरूपेणैव ह्यष
विभाग: प्रबन्धानामिति द्रष्टव्यम् । वस्तुतस्तु नैष ऐकान्तिको
विभागः । तथा च दृश्यते हि विभिन्नभाषासु प्रसिद्ध लेखकानां
प्रबन्धेष्वेषां भेदानां परस्परं संकर : संसृष्टिश्च ।
प्रबन्धरचनायाः प्रक्रिया
तत्र निरूपणात्मकानामाख्यानात्मकानां च प्रबन्धानां
विषये नहीह बहु वक्तव्यमपेक्ष्यते । प्रथमं तावत्संस्कृतपरीक्षा-
स्वालोचनात्मका एव प्रबन्धाः प्रायेगापेक्ष्यन्ते । किञ्च
द्वयोरप्याद्ययोः प्रकारयोर्बहून्युदाहरणानि पुराणादिग्रन्थेषु महा-
काव्येषु च दृश्यन्ते । इत्यादिकारणैरत्र प्राधान्येनालोचनात्मक-
प्रबन्धानामेव विषये किञ्चित् संक्षेपेगोच्यते ।
आलोचनात्मक प्रबन्धरचनाया:
प्रक्रियाविषयेऽनेकानि
प्राचीनानि नवीनानि च मतानि दृश्यन्ते । तेषु कानिचिदेवात्र
प्रदर्श्यन्ते ।
पूर्वोत्तरमीमांसाशास्त्रयोर्हि तत्तद्विषयक प्रबन्धानामधिकरण-
संज्ञा प्रसिद्ध । एकार्थप्रतिपादको विषयसंशयपूर्वपक्षसिद्धान्त-
निर्णयात्मकपश्चाङ्गबोधकवाक्य समुदायो
मिति हि पूर्वमीमांसायां तल्लक्षणम् ।
100
न्यायोऽधिकरण-
तथा चोच्यते-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१२&oldid=355308" इत्यस्माद् प्रतिप्राप्तम्