पृष्ठम्:Prabandhaprakasha.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:

कानि वाक्यानि, अन्येषु च शास्त्रेषु समानार्थप्रतिपादकानि वच-
नानि प्रकारान्तरेण प्रबन्धरचनाप्रक्रियाप्रतिपादकान्येव सन्ति ।
सत्यप्येवमद्यत्वे विशेषरूपेण विशिष्टविषयत्वेन च प्रबन्धरचनाया
विषये ध्यानं दीयत आधुनिपठनपाठनपरिपाट्याम् । एता-
वदेवान्तरं प्राचीननवीनपरिपाट्या: ।
प्रबन्धरचनायाः प्रकाराः
यद्यपि प्रतिपाद्यविषयाणामानन्त्यात् प्रबन्धक बुद्धिवैचि
व्याञ्च कतिप्रकारा: प्रबन्धा इति विशेषतो निर्देष्टु न शक्यते,
तथापि सामान्येन त्रिप्रकारत्वं तेषामभ्युपगम्यते- निरूपणा.
त्मका, आख्यानात्मका, आलोचनात्मकाश्चेति । '
तत्र कमपि चेतनमचेतनं वा पदार्थमधिकृत्य तत्स्वरूपादि-
निरूपणपरा: प्रबन्ध निरूपणात्मका (Descriptive
Essays ) उच्यन्ते । यथा वननदीपर्वतोष:काल सायङ्काल-
वायुयानादेर्निरूपणम् ।
कामध्येतिहासिको सामयिकों वा घटनां वृत्तान्तं वाधिकृत्य
तदाख्यानपरा: प्रबन्धा आख्यानात्मका ( Narrative
Essays ) उच्यन्ते । यथा देशदेशान्तरतीर्थादियात्राया
आत्मनोऽन्यस्य वा जीवनचरितादेश्च वर्णनम् ।
१ अयमेव विभागो वस्तुवर्णनात्मका वृत्तान्तवर्णनात्मका
विचारात्मकाश्च यद्वा वस्तुमूलका वृत्तान्तमूलका विचारमूल-
काश्चेति शब्दान्तरैरपि निर्देष्टुं शक्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११&oldid=355307" इत्यस्माद् प्रतिप्राप्तम्