पृष्ठम्:Prabandhaprakasha.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


परिपुष्टता च यथा प्रबन्धरचनाया अभ्यासेन जायते न तथान्येन
केनाप्युपायेन । एवं भाषायां गतिः प्रतिष्ठा च यथा प्रबन्ध-
लेखनेन सुदृढा सम्भवति न तथान्यथा । द्वितीयं, स्वविचारप्रचा-
रार्थमप्यस्योपयोगः । सार्वजनिकदृष्ट्यावश्यकानामुपयोगिनां
च तत्तद्विषयाणां सम्बन्धे स्वविचारप्रचाराय सामयिकपत्रादिषु
प्रबन्धलेखनमेवात्युत्तमेोऽभ्युपाय: । इत्यादिकार गौरेवाद्यत्वे तत्त-
परीक्षासु प्रबन्धरचनाविषयस्य प्राय: प्राधान्येन समावेश: कृतो
दृश्यते । अस्मिन् प्रसङ्ग एतदव्यवधाय परीक्षार्थिभिर्यत्प्रबन्ध-
रचनाभ्यासा न केवलं स्वविषय एव समुत्तीर्णतासाधनम्,
किन्त्वन्यविषयेष्वपि भाषापाटवसाधकत्वेन महोपकारकः ।
प्रबन्धप्रकाशः
विषयस्येतिहासः
सोऽय विषय आपततो नवीनत्वेन प्रतीयमानोऽपि न हि
वस्तुत: सर्वथा नवीन: । सत्य, प्राचीनसमये प्रबन्धरचनंति-
विशिष्टनाम्ना नहि कश्चिद्विषय: प्रायेण पठनपाठन विधेरङ्गमा-
सीत् । तथापि प्राचीनदर्शनशास्त्रेषु तत्तदधिकरणरूपेण, नीत्यादि-
ग्रन्थेषु कथाख्यायिकादिभिः, पुराणेतिहासादिप्रन्थेषु तत्तद्-
दृष्टान्तसहकारेण च भिन्नभिन्न प्रकारैरेकार्थप्रतिपादनं दृश्यत एव ।
धर्मशास्त्रादिविषयकानर्थानुद्दिश्य लिखिता: प्राचीना "निबन्धा:"
प्रसिद्धा एव कौटिलीयार्थशास्त्र (अधिकरणं १५), सुश्रुते
( उत्तरतन्त्रेऽध्याय: ६५), चरके ( सिद्धिस्थानेऽध्याय: १२ ) च
तन्त्रयुक्तिप्रकरणम् पूर्वोत्तरमीमांसयोरधिकरणस्वरूपप्रतिपाद-
,
,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०&oldid=355306" इत्यस्माद् प्रतिप्राप्तम्