पृष्ठम्:Prabandhaprakasha.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
विषयो विशयश्चैव पूर्वपक्षस्तथेोत्तरम् ।
निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम् ॥ इति ।
6

"तत्र विचारार्ह वाक्यं विषयः । तस्यार्थविषये विशय
इदमित्थं नवेति विकल्पः । तत्र संदिह्यमानयो: पक्षयोरसत्पक्षे
युक्तिप्रदर्शन वाक्यं पूर्वपक्षवाक्यम् । पूर्वपक्षोक्तां युक्तिं खण्ड-
यित्वा सत्पते युक्तिप्रदर्शनवाक्यं सिद्धान्तः । ततश्चेत्याद्यभि
लापेन सिद्धान्तसिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्य-
मिति ।” उत्तरमीमांसायां तु “तत्रैकैकमधिकरणं पञ्चावयवम् ।
विषय: संदेह: संगतिः पूर्वपक्ष: सिद्धान्तश्चेति पञ्चावयवाः ।”
इति विशेष: । ( वाचस्पत्येऽधिकरणशब्दोऽत्र द्रष्टव्यः) । इत्येत
दनुसारं प्रबन्धरचनाया अपि विषयादीनि पञ्चाङ्गानीति युक्तम् ।
यद्वा “प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः "
(न्यायसूत्रे १|१|३२) इति न्यायसूत्रोक्तविधया प्रबन्धानां प्रति-
ज्ञादिपञ्चावयवात्मकत्वमपि प्रतिपादयितुं शक्यते । एवमेवा-
न्यान्यपि मतान्यत्र विषये दृश्यन्ते ।


परन्तु विषयभेदाद् लेखकानां रीतिवैचित्र्याच्च संभवत्यध्ये-
तेषां सर्वेषामवयवानामनेषु स्थलेषु प्रबन्धरचनाया अङ्गत्वे
नाकान्ततस्तेषां सर्वत्र समानावश्यकता | सर्वविधेष्वपि

१ प्रतिज्ञाद्यवयवानां लक्षणादीनि तु न्यायसूत्र एव द्रष्टव्यानि |
२ निरूपणात्मकानामाख्यानात्मकानां चापि
प्रबन्धानामेतान्येव
उपक्रमोपपत्च्युपसंहाररूपाणि त्रीण्यङ्गानि । केवलमेतावानेव भेदा यदे -
तयाः प्रकारयोः प्राधान्येन (वस्तुवृत्तान्त) वर्णनात्मकत्वादत्र तेषामङ्गानां
स्वरूपमपि यथायथं किञ्चिद् भिद्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३&oldid=355309" इत्यस्माद् प्रतिप्राप्तम्