पृष्ठम्:Prabandhaprakasha.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४
प्रबन्धप्रकाश:
स्राणां ग्रन्थानां ग्रन्थकाराणां च केवलं नाममात्रेणैवाल्लेखो
नानाप्रन्थेषु दृश्यते । निरन्तरं च प्रकाश्यन्ते नूतननूतनग्रन्थ-
रत्नानि प्राचीन संस्कृतग्रन्थोद्धार तत्पराभिर्नैकसंस्थाभि: । तदेतत्सर्व
देववाण्या साहित्यस्य निरुपम विस्तृतिमेव ख्यापयति । द्योत.
यति च 'कल नार्हन्ति षोडशीम्" इत्यस्य चरितार्थतां संस्कृ
तापेक्षया उपर्युक्त 'लैटिन आदिभाषाव्यतिरिक्त प्राचीन भाषाणां
विषये । अर्थगाम्भीर्यभावसौन्दर्याद्यपेक्षयापि संसारभाषाणां--
न केवलं प्राचीनानां किन्तु आधुनिकीनामपि - शिरोमणीभूतैव
नो देववाणी । उपनिषदा, भगवद्गीता दर्शनशास्त्राणि, भाग-
वतम्, शाकुन्तलम्, उत्तररामचरितम् इत्याद्यले किक साहित्य-
रत्नैरलंकृता सा सहसैवान्या भाषा प्रतिक्रामति । एकैकमपि
हि एतादृशं साहित्यरत्नं कस्या अपि भाषायाः सौभाग्यसम्पा
दनायालं गौरवास्पदं च । धर्मार्थकाममोक्षाख्यानखिलानेव च
पुरुषार्थान् लक्ष्यीकृत्य प्रवृत्तं तत्साहित्यम् । अत एव च
सर्वाङ्गसम्पूर्णम् ।
-
-
9
T
न केवलमेतावतैव तस्याः प्राधान्यम् । अतिप्राचीनत्वेनास्या
वेदादिरूपसाहित्यभागस्य नानाविषयाणां तुलनात्मकदृष्ट्याध्य-
यनेऽप्यतीवोपयोगिनी देववाणी । अस्या: शब्दरचनायाश्चाति-
स्पष्टतया चिरकालादेव च लोकोत्तरप्रतिभानवद्भिराचार्यैर्व्याकृ
तत्वेन निरुक्तत्वेन च स्वपरिवारसम्बन्धिनीनां 'इंग्लिश', 'जर्मन',
'ग्रीक', 'लैटिन', प्रभृतीनां भाषाणामध्ययने चास्या परमो
पयोगित्वं भाषाशास्त्रवेदिनः कस्य न विदितम् । अत एव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११२&oldid=355410" इत्यस्माद् प्रतिप्राप्तम्