पृष्ठम्:Prabandhaprakasha.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
१०३
साधकमखिलदुरितापहारकं च तत्सारभूतं साहित्यं तस्यां
भाषायाम् । सत्यपि च तस्मिन् विषयाणां समष्टिव्यष्टिदृष्टया
कियांस्तस्य विस्तर: कियश्च गाम्भीर्यम् । अथवा भिन्नभिन्नदेश-
कालेषु वर्तमानाभिर्मनुष्यजातिभिः प्रचारितेषु समुन्नतिपदं च
नीतेषु नानापुरुषार्थोपयोगिषु दर्शन विज्ञानधर्मशास्त्रकाव्य सङ्गीता -
दिविषयकेषु शास्त्रेषु तदवस्थायास्तारतम्यदृष्ट्या कस्य कस्य
शास्त्रस्य केन केन च परिमाणेन प्रचारणं समुन्नतिश्च सम्पादिते
तस्यां भाषायाम् । सत्स्वपि च नानाविषयक गूढगम्भीर निब-
न्धेषु कियती तेषामुपयोगिता उपादेयता च । उपादेयतासद्भा
वेऽपि एतदपि समीक्षणीयं यदद्यत्वे कीदृशी तस्य साहित्यस्य
गतिः -- उन्नतिमुखी किं वावनतिमुखी । अथवा नानादेशीय-
शास्त्राणामुन्नतेरपेक्षया तस्य गतिः सन्तोषावहा न वा । अन्तत
एतदपि विचारणीयं यत्तत्साहित्यज्योतिः प्रकाशोऽन्तरायमन्तरेगा
साधारण जनतां यावदधिगन्तुं शक्नोति न वा । शब्दान्तरेषु
तदध्ययनाध्यापन सौलभ्यमपि वर्तते न वा ।
-
१५
देववाण्या : साहित्यस्य तावदतिविस्तृतत्वे परमोत्कृष्टत्व
उपादेयतायां च दिष्टया नहि कस्यचिद्विवादः । संसारे नहि
काचिदेतादृशी भाषा यस्या: साहित्य प्राचीनतादृष्टयास्या:
साहित्यस्य समतामासादयेत् । विस्तृत्यपेक्षयापि 'ग्रीक' 'लैटिन'
इत्यादिपरमप्रसिद्धप्राचीनोत्कृष्टभाषाणां कयोरपि द्वयोः साहि
त्यमेकत्रीकृतमपि न तावद्विस्तृत यावदेववाण्याः । न चापि
देववाणीसाहित्यं साकल्येनाथ यावत् समुपलभ्यते । पर:सह-
V

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१११&oldid=355409" इत्यस्माद् प्रतिप्राप्तम्