पृष्ठम्:Prabandhaprakasha.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२
6
धर्माण ऋषयो बभूवुस्तेऽवरेभ्यो ऽसाक्षात्कृतधर्मभ्य उपदेशेन
मन्त्रान्सम्प्रादुरुपदेशाय ग्लायन्तोऽवरे बिल्ममहणायेमं ग्रन्थं
समाम्नासिषुवेदं च वेदाङ्गानि च” ( निरुक्तो १ ।२० ) इति,
" कि पुनराप्तानां प्रामाण्यम् १ साक्षात्कृतधर्मता भूतदया
यथाभूतार्थचिख्यापयिषेति । आता: खलु साक्षात्कृतधर्माण
इदं हातव्यमिदमस्य हानिहेतुरिदमस्याधिगन्तव्यमिदमस्याधिग-
महेतुरिति भूतान्यनुकम्पन्ते । तेषां खलु वै प्राणभृतां स्वयमनव-
बुध्यमानानां नान्यदुपदेशादवबे | धकारणमस्ति । न चानवबोधे
समीहा वर्जनं वा । न वाकृत्वा स्वस्तिभावः, नाध्यस्यान्य
उपकारकोऽप्यस्ति । हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदि-
शाम:, त इमे श्रुत्वा प्रतिपद्यमाना हेय हास्यन्त्यधिगन्तव्यमे-
वाधिगमिष्यन्तीति । एवमाप्तोपदेशः ।” (न्यायभाध्ये २११९६८)
इत्याद्यनुसारमनुकम्पापरैः प्रज्वलितं ज्ञानज्योति: स्थूलसूक्ष्मा
द्यनेक विधपदार्थजातविषयक' तेषामनुभव' विचारं च प्रख्यापयत्
सहस्रशो वर्षेष्वतीतेष्वपि उत्तरोत्तरं विवर्धमानमद्यापि समुद्रा-
समानं संदृश्यते । यद्विषयं हि
प्रबन्धप्रकाश:
ब्रह्मादयो विश्वहिताय तप्त्वा परः सहस्रा: शरदस्तपांसि ।
एतान्यपश्यन्मुनयः पुराणा: स्वान्येव तेजांसि तपोमयानि ||
इति किञ्चित्परिवर्तिता महाकविभवभूतेरुक्तिर्वक्तुरभिप्रेतप्रसङ्ग -
भङ्गेऽपि सम्यक सङ्गच्छते ।

ततश्च कस्या अपि भाषाया: स्वरूपनिर्णय एतदेव मुख्यतो
विचारणीय' भवति यदस्ति किश्चित्सर्व मनोहारि निखिल पुरुषार्थ-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११०&oldid=355408" इत्यस्माद् प्रतिप्राप्तम्