पृष्ठम्:Prabandhaprakasha.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
'जर्मनी', 'अमरीका' इत्यादिसुदूरनानादेशेषु
शछात्राश्च तदध्ययनाध्यापनतत्पराः श्रूयन्ते ।
4
भारतवर्षीयान् प्रति तु तस्या उपयोगित्वप्रतिपादनं केवलं
पुनरुक्तिरेव | न केवलं तेषामतिप्राचीनेतिहासा नितान्तं देव-
वाण्या अध्ययनादेवावगम्यते । तेषां सभ्यताया धार्मिक विश्वा
सानां च प्रासादस्य मूलभित्तिरपि संस्कृतसाहित्य एवावतिष्ठते ।'
आधुनिक 'हिन्दी', 'बङ्गाली' प्रभृतिभाषाणामप्यन्ततः संस्कृत
मेवात्पत्तिभूमिः । किं बहुना जन्मप्रभृति मरणपर्यन्तं तेषा-
मभ्युदय निःश्रेयससाघनतत्परा सतत स्वसाहित्यसरीरसामृतेन
तानाप्याययन्ती सर्वथा मङ्गलमयी मातृकल्पैव भारतीयानां
देववाणी |
१०५
शतशोऽध्यापका
सत्यपि सत्य एतस्मिंस्तद्विषयकवृत्तान्ते महानेष परिताप-
विषयो यत् तस्या आधुनिक प्रवाहो न सन्तोषावहः । सत्यं
प्राचीनग्रन्थेोद्धारः प्रतिदिनं क्रियमाण: श्रुतिपथमायाति । सत्यं
यत्तस्या अध्ययनाध्यापनं सुदूरदेशदेशान्तरेषु क्रियते । तस्या,
गौरवं यशश्च प्रतिदिनमुत्तरोत्तरं विवर्धमानं सान्त्वयति नो
भारतीयानां चेतांसि । तथापि सर्वमेतत्प्राचीन साहित्यमात्रवि-
षयकम् | अद्यत्वे तस्या: साहित्यस्य गतिरवनतिमुखी एवेत्यत्र
नहि कस्यचिद्विवादः । चिरादेव नानाशास्त्रषु नूतनविचारायां
सृष्टिस्तद्द्वारा तस्याः साहित्यस्य समुन्नतिश्चावरुद्धा दृश्यते ।
सन्तु कंचिदङ्गुलिनिर्देश्याश्चर्वितचर्वणपिष्टपेषणकारिणष्टोका-
टिप्पणीकर्तारः, परन्तु वस्तुत: स्वोपज्ञविचारविचारकाणां नूतन-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/११३&oldid=355411" इत्यस्माद् प्रतिप्राप्तम्