पृष्ठम्:Prabandhaprakasha.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
इदानों तु प्रेक्ष्य क्षितितलभृतः शास्त्रविमुखान्
हो कष्टं ! सापि प्रतिदिनमधोऽषः प्रविशति ॥
इत्येवं राजर्षिणा भर्तृहरिणा तस्या अवनतिः प्रदर्शिता, तत्राद्य
सम्यक् प्रवृत्ते सर्वथा प्रतिकूले वर्तमाने काले, सम्प्रतिष्ठिते
चान्यभाषाणां साम्राज्ये, तस्या अवनतिं प्रति नहि भवितुमर्हति
संशयलेशावकाशः । तदेवं पूर्वमेवोन्नतिसद्भावात्तदुन्नतेर्नापेत्ति-
तत्वमिति वदन्तः परास्ता: ।
ततश्च दृष्टाप्येतां सर्वलोकविदितां देववाण्या अवनतिम्,
स्मृत्वापि तस्या नाम्नैव समाख्यातं त्रिलोक्यामसाधारणं पूर्व-
कालिकं परमं यश: को नाम भारतबन्धुर्धर्मधुरीणो धीमांस्तदुन्न-
त्युपायसमालोचने मन्दप्रयत्नो भविष्यति ?
१००
A
.
£
तत्र "प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते” इति न्याया-
नुसारतत्तावद्विचारणीयं यत् किन्तु खल्वस्मिन् प्रसङ्ग उन्नति
शब्देनाभिप्रेयते, कथं च तत्स्वरूपनिर्णय: कतु शक्यत इति ।
एतद्विचारानन्तरमेव तस्या उन्नत्युपायचिन्तनमवसरप्राप्तत्वेन
समुपयुज्यते । तत्साधनार्थं च प्रयतितुं शक्यते । तदत्र
प्रथममेतदेवाघस्ताद्विचार्यते ।
• अद्यत्वे तावत्कस्याश्चिद्भाषाया उन्नतिस्वरूपनिर्णये प्रवृत्तेना-
नेकविषयेषु दृष्टेरनुधावनमाकाङ्दयते । शब्दान्तरेष्वयमेवार्थ
एवं वक्तुं शक्यते यत्कस्याश्चिद् भाषाया उन्नतिस्वरूपपरीक्षणा-
येते तावदधोनिर्दिष्टा विषयाः समालोचनीया :-
( १ ) प्रथमं तावत्तस्या भाषाया भाषिणां संख्या ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०८&oldid=355406" इत्यस्माद् प्रतिप्राप्तम्