पृष्ठम्:Prabandhaprakasha.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
अनुसरन्त एवैतन्त्रियमं चिरादस्मद्देशीया देववाण्या: स्वरूप-
मालोचयितुमुच्यतास्तदुन्नत्युपायपरिमार्गणपराः सन्ति ।
न च उन्नतेरुपाय चिन्तनमवनतिमादौ स्थापयति । तत्र “सति
कुड्यो चित्रम्” इति न्यायेन देववाण्या अवनतेरेवाभावात्तदुन्नत्यु-
पायचिन्तनम्यामूलकत्वं वैयर्थ्यापत्तिश्चेति वाच्यम् । तदवनते:
साम्प्रतं साक्षात्त्वात, सर्वैः स्वीकृतत्वाच्च । तत्रैते श्लोका भवन्ति -
दैवी वाणी पुरा यासीदुन्नतेरासने स्थिता ।
दौर्भाग्येणास्य देशस्य दुर्दशामद्य सा गता ||
या प्राचीननिबन्धेषु लोकभाषेति वर्णिता ।
भारतान्येषु देशेषु कम्बोजादिषु भाषिता ||
सैकस्यापि नरस्याद्य न भाषात्वेन गण्यते ।
अथापि मृतभाषेति लोकै ! सातिनिन्द्यते ॥
विस्तर: क्वान्यभाषाणां तदवस्था च सम्प्रति ।
क्व चैषा देववाणी, हा! महान् भेदः प्रतीयते ।।
भोजविक्रमवत्कोऽपि न तस्याः पोषक: क्वचित् ।
प्रष्टा सन्ति सर्वत्र ह्यन्यासां कोऽत्र संशयः ? ॥
कूपोदकं यथा तद्वद् रुद्धं बद्धं च वाङ्मयम् |
पुरावन्नाद्य विद्वांसो दृश्यन्ते भारते क्वचित् ॥
भव्याः ! नेयमत्युक्तिः । यत्रास्मात्कालात् स्थूलदृष्टया
चतुर्दशशतसंवत्सरेभ्यः प्रागपि -
पुरा विद्वत्तासीदुपशमवतां क्लेशहतये
गता कालेनासौ विषयसुखसिद्धय विषयिणाम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०७&oldid=355405" इत्यस्माद् प्रतिप्राप्तम्