पृष्ठम्:Prabandhaprakasha.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
इत्यस्मिन्नर्थे च श्रद्दधानः
नीरसमपि मम वचनं कृत्वा करुणा सुशीलसंभूताम् ।
आकर्णयन्तु भव्याः सन्तस्तुष्यन्ति परभणितैः ॥
इत्येवं तत्रभवतामवधानं दीयमानमभ्यर्थये ।
सभ्या: ! अद्य खलु कथं नु देववाण्या: समुन्नतिर्भवेदित्य-
स्मिन्विषये किच्चिदावेदयितुं समादिष्टोऽहं श्रीमद्भिः | महानेष
गभीरा विषय:- विशेषतो मादृशां विषये - नैकशास्त्र नकभाषा-
परिशीलनापेक्षी च | उन्नत्यवनतिव्यवहारस्य सापेक्षत्वेन कस्पा
अपि भाषाया उन्नत्यवनत्यारवधारणाय नैकभाषाणां तारतम्य
परीक्षणस्यावश्यकत्वात् तद्विषयकज्ञानस्यास्मिन्विषये नितरामा-
वश्यकत्वम् । कस्यापि भाषाया वस्तुस्थितेरवगत्यै च तद-
न्तर्गतनानाशास्त्राणामवस्थाया अपि ज्ञानमपरिहार्यमिति नैकशा-
स्त्रपरिशीलनस्याप्यावश्यकत्वं स्फुटमेव । तथापि यथामति
विषयेऽस्मिन् भवतां पुरः किच्चिद्वक्तमुपक्रमे ।
इह खलु परिवृत्तिशालिनि जगति, तत्रापि जाप्रत्यतिमानमहिनि
काले, कंस्यापि सर्वदैकर सेनैवाव स्थितिर्नितरामसम्भवा । सर्वमपि
वस्तु परवशं चक्रनेमिक्रमेण नानावस्था: समुपभुङ्क्ते । यत्र दिनं
तत्र् रात्रिः, यत्र च रात्रिस्तत्र दिनं पर्यायानुसारमाविर्भवति ।
.
एतन्नियमानुरूपमेव चिराज्जगदिदमुन्नतिपथानुगं सम्प्रति
समालोच्यते । उदयाचलमारूढा भगवान् ज्ञानभावान् भुवन-
माभासयितुं प्रवृत्तः । सर्वोऽध्यविद्यातमिस्रापगमे मोहनिद्रा-
मुन्मुच्य स्वीयस्वीयपदार्थजातपरीक्षणपरो दृष्टिपथमायाति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०६&oldid=355404" इत्यस्माद् प्रतिप्राप्तम्