पृष्ठम्:Prabandhaprakasha.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः

  • गीर्वाणवाण्या श्रभ्युदयोपायाः

तापत्रयावलि विमूर्च्छित चेतनाना-
मात्मस्वरूपमवमत्य सदा स्थितानाम् ।
अज्ञाननाशनपटू नवबेधहेतून
वेदान्विकासयति यस्तमहं नतोऽस्मि ||
विनयभाववशेन नतेन तं
त्रिभुवनाधिपति' शिरसा ततम् ।
श्रमितमोदयुतं करुणानिधि-
मविदितं परितोषयितुं यते ॥
अयिभो ! अशेषशास्त्रतत्त्वानुशीलन सञ्जातनिर्मलशेमुषीका:
सामाजिका: ! श्रीमतां समक्षं देववाण्या : समुन्नतेरुपायमधि-
कृत्योपन्यसितु प्रवृत्तस्य यत्सत्यं वेपत इव मे हृदयम् । तथाहि-
नानाशास्त्रविचक्षणोऽपि प्रथमं प्राप्तः सभां मानव:
w..com
सम्यक्पारयते न भावकथने सङ्कोचवश्यः सदा ।
चित्रं नो यदि वेपनं मम हृदः सञ्जायते सम्प्रति
यस्मान्नास्मि विचक्षणः, पुनरियं संसत्सतां नूतना ॥
अथापि श्रीमतामादेशरूपं महान्तमनुग्रहं शिरसा बिभ्राणः
चन्द्रोदये तु सत्यपि द्विजवृन्दं किन्न भासते गगने १
तद्वद्विदुषां मध्येऽप्रौढाऽपि
दोषभाकथने ॥

  • २८ । ११ । १६१३ ईस्वीतिथ्यां "काशीसंस्कृतसमिती" पढि-

तोऽयं लेखा ग्रन्थकर्त्रा |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०५&oldid=355403" इत्यस्माद् प्रतिप्राप्तम्