पृष्ठम्:Prabandhaprakasha.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
भद्र सम्पादक, विवाह एवास्माकं सर्वानर्थमूलम् ।
कन्यकानां वरलाभार्थमेव पितरो दूयन्ते । तेनैव चैषामस्मासु
वैमनस्यं दृश्यते । किन्तु पृच्छामि - किं नु खलु कन्यका ह्य वा-
त्रापराध्यन्ति ? जानीषे यत्र क्वापि धनिकाय वा निर्धनाय
al.
,
विज्ञाय वा, मूढाय वा, सुरूपाय वा, कुरूपाय वा कुलीनाय वा,
,
अकुलीनाय वा अनुमताय वा, अननुमताय वा यस्मै कस्मै-
चिदपि प्रदीयमानापि न जातु युष्माकं कन्यका प्रकाशं
किञ्चिदन्यथा ब्रवीति, न सा विवाहसमये इयद्धनं देयमिति
निर्बन्धनापि पितुर्धनमधिकत्तु मिच्छति । सा खलु युष्मन्निये गेन
आल्यं परिचितानि आत्मीयत्वेनाभिमतानि सर्वाण्यपि वस्तूनि
सपदि परिहाय कस्मिंश्चिदचिन्तितपूर्वे प्रदेशे सर्वथापरिचिते.
रभिनवैर्जन: चिरं स्थातुमपि गच्छति । कि बहुना यदेव
किश्चिजनक इच्छति, तदेव कन्यका करोति । एवमपि न
प्रसीदति वा हृदयमिति सर्वथा दुःखसंवेदनायै वास्माक' जीवनम् ।
पतिगृहे सुखं भवेन्नवेति दूरमास्ताम् हन्त पितुगृहेऽप्यवस्थाने
नास्माक' सुखम् । अस्मद्विवाहसम्पादनभारखिन्नानां विषाद-
कवलितवदनानां पित्रादीनां चित्तग्लानिमालोक्य कस्य नाम
चेतसि सुखमुदेतु । सम्पादक महाशय, ईदृश एव युष्माक-
विस्तरति शिवम् ||
मस्मासु अनुप्रहप्रकारः ।
[ मित्रगोष्ठी पत्रिका, द्वितीयवर्षे पृ० १०० - १०३ ]

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०४&oldid=355402" इत्यस्माद् प्रतिप्राप्तम्