पृष्ठम्:Prabandhaprakasha.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
निशितं शूलं प्रवेशितम् । तद्यथा, महर्षिनरदो हरिश्चन्द्रेय
" किंस्वित् पुत्रेण विन्दत" इत्याद्येकया गाथया पृष्टो दशभिर्गा-
थाभिः पुत्रगुणान् कथयन् अकाण्डेडवोचत्-
"अ' ह प्राणः, शरणंह वासो,
61
रूपं हिरण्यं पशवो विवाहाः |
सखा ह जाया कृपां ह दुहिता,
ज्योति पुत्रो परमे व्योमन् ॥ " *
दृष्ट महाशय सम्पादक, "कृपणंह दुहितेति" - दुहिता
हि केवलं दुःखकारित्वाद् दुःखहेतुर्भवति । इत्थमेव तद्वाक्य-
स्थार्थ इति श्रीसायणाचार्योऽभिप्रैति । दुहितॄणां दार्भाग्येऽन्य-
दपि स्मर्यते-
pom
“सम्भवे स्वजनदुःख कारिका,
सम्प्रदानसमयेऽर्थहारिका ।
यौवनेऽपि बहुदोषकारिका
व्याजेन ।
दारिका हृदयदारिका पितुः ॥” इति ।।
दुहितॄणां पितृधनाधिकारोऽपहतो युष्माभिः शास्त्रानुशासन-
तावतानि श्रीमती न सन्तोष: । यदस्माभिरन्तरा-
न्तरा पितृसकाशे किञ्चित् प्रार्थ्यते तत्रापि युष्माकमक्षमा |
तदिदमवलम्ब्य उपहासादपि यूयं न विरमथ । तेन हि "दुहितृ"
पदस्यापि युष्माभिरभिनवोऽर्थः कल्पितः । उक्त यास्केन-

  • ऐतरेयब्राह्मणे तृतीयेऽध्याये प्रथमं खण्डम् |

सायनतोऽयं श्लोकः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०२&oldid=355400" इत्यस्माद् प्रतिप्राप्तम्